________________
न्यायप्रकाशसमलहो शेषाणि च त्रीणि नात्यन्तानर्थसम्पादकानि विपरीतावधारणरूपत्वाभावेन सुप्रतीकारत्वात् इति ॥
अविरतिमाख्यातिहिंसाद्यव्रतेभ्यः करणैर्योगैश्चाऽविरमणमविरतिः । तस्याश्च मनः पश्चेन्द्रियाणां स्वस्वविषयेभ्यः पृथिव्यप्तेजोवायुवनस्पतित्रसरूपषड्विध- 5 जीवहिंसातश्चाप्रतिनिवर्तनरूपत्वाद्वादशविधत्वम् ॥
हिंसाद्यव्रतेभ्य इति । अविरमणमविरतिः, केभ्यः, अव्रतेभ्यः, तथाचाऽव्रतेभ्योऽविरमणमविरतिः । अकरणं हि विरतिः करणश्चाऽविरतिस्तथा च कैः करणमितिकरणाकांक्षा जायते, तत्राऽऽह-करणैर्योगैश्चेति । इन्द्रियैर्मनोवाक्कायरूपयोगैश्चेत्यर्थः, यदि कायेनैवेन्द्रियाणामपि ग्रहणं भवतीत्युच्यते तदा करणैः कृतकारितानुमतिभिरित्यर्थः । अव्रतानि कानी- 10 त्यत्राह हिंसादीति । आदिनाऽसत्यस्तेयाऽब्रह्मपरिग्रहाणां ग्रहणम् , यद्यपि हिंसादिभ्योऽविर. मणमेवाव्रतं तथापि हिंसादीनामपि अविरतिं प्रत्यनुकूलतयाऽवतत्वोक्तिः, न च हिंसादयो व्रतरूपा अपि स्युस्तद्विषयकविरमणरूपत्वाव्रतस्येति वाच्यम् , अत्यन्तप्रतिकूलतया विरतिं प्रति तथाकथनस्यानुचितत्वात् एवश्च हिंसाद्यव्रतेभ्यः कृतकारितानुमतिमनोवाकायान्यतमेनाविरमणमविरतिरिति भावः । हिंसाद्यन्यतमस्य कृतकारितानुमतिमनोवाकायान्यतमेन 15 करणमितियावत् । तस्या द्वादशविधत्वं द्वादशस्थानप्रदर्शनद्वारा प्रकटयति तस्याश्चेति, अविरतश्चेत्यर्थो द्वादशविधत्वमित्यनेनाऽस्य सम्बन्धः । कथं द्वादशविधत्वमित्यत्राह मन इति । मनसस्स्वस्वविषयेभ्योऽप्रतिनिवर्तनमित्येका पञ्चेन्द्रियाणां घ्राणरसनचक्षुश्श्रोत्रस्पर्शानां स्वस्वविषयेभ्योऽप्रतिनिवर्तनानीति पञ्च, षड्डिधजीवहिंसादिभ्योऽप्रतिनिवर्तनानीति षट् मिलित्वा च द्वादशविधत्वमिति भावः ॥
20
कषायमाह
कषायः पूर्वोदितपञ्चविंशतिविधः । वेदत्रयहास्यषट्कात्मकनोकषायः कषायसहगामित्वात्कषायपदवाच्यः ॥
कपाय इति । पूर्वोदितेति पापनिरूपणोदितेत्यर्थः । तथाचाऽनन्तानुबन्धिक्रोधमानमायालोमाः, अप्रत्याख्यानक्रोधमानमायालोभाः, प्रत्याख्यानक्रोधमानमायालोमाः, संज्वलन- 25 क्रोधमानमायालोमा इति षोडशविधः कषायः । पुंस्त्रीनपुंसकहास्यरत्यरतिशोकमयजुगु