________________
तस्वन्यायक्मिाकरे
[ नवमाकरणे जनकमप्यनाभिग्रहिकं भवतीति सूचयितुं पूर्वत्र जन्यतयाऽत्र च जनकतया लक्षणमभिहितमिति ध्येयम् ॥
आभिनिवेशिकमाख्याति
तत्त्ववेत्तृत्वेऽप्यतदर्थेषु तदर्थताऽभिग्रह आभिनिवेशिकं ॥ 5 तत्ववेत्तृत्वेऽपीति । शास्त्रतात्पर्यबाधप्रतिसन्धानत्वेऽपीत्यर्थः । तेन श्रीजिनभद्रसिद्ध
सेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयके पक्षद्वयेऽप्यन्यतरस्य वस्तुनः शास्त्रबाधितत्वात् तदन्यतरश्रद्धानवतो नाभिनिवेशित्वप्रसङ्गः। तेषां स्वाभ्युपगतार्थे शास्त्रतात्पर्यबाधप्रति. सन्धानेऽपि पक्षपातेन तत्प्रतिसन्धानाभावात् किन्त्वविच्छिन्नप्रावचनिकपरम्परया स्वाभ्यु
पगतार्थानुकूलत्वेन शास्त्रतात्पर्यस्यैव प्रतिसन्धानात् । अतदर्थेषु अतथाभूतेष्वर्थेषु, तदर्थता10 भिग्रहः-दुष्टाभिनिवेशेन तथाश्रद्धानमित्यर्थः, गोष्ठामहिलादयो हि दुरभिनिवेशविप्लावितधियश्शास्त्रतात्पर्यबाधं प्रतिसन्धायैवान्यथा श्रद्दधते। अभिनिवेशे दुष्टत्वञ्च सम्यग्वक्तवचनानिवर्त्तनीयत्वं, तेन सम्यग्दृष्टेरपि अनाभोगात्प्रज्ञापकदोषाद्वा अन्यथा श्रद्धानसंभवेऽपि नाभिनिवेशिकत्वम् , तेषामभिनिवेशस्य सम्यग्वक्तृवचननिवर्तनीयत्वादिति भावः ॥
सांशयिकं वक्तिअर्हत्तत्त्वधर्मिकसत्यत्वसंशयजनकं मिथ्यात्वं सांशयिकम् ॥ .
अर्हत्तत्त्वेति । भगवत्प्रोक्तानि जीवादितत्त्वानि सत्यानि नवेत्येवंरूपस्य संशयस्य जनक तज्जन्यं वा यन्मिथ्यात्वं तत्सांशयिकमित्यर्थः । अन्यप्रोक्ततत्त्वेषु सत्यत्वसंशयस्य जनक न तादृमिथ्यात्वमित्यतोऽर्हदिति यद्यपि सूक्ष्मार्थादिविषयस्संशयस्साधूनामपि संभवति
तथापि स आगमोदितभगवद्वचनप्रामाण्यपुरस्कारेण निवर्त्तते, स्वरसवाहितयाऽनिवर्तमानश्च 20 स सांशयिकमिथ्यात्वरूपस्सन्ननाचारापादक एव, अत एवाकांक्षामोहोदयादाकर्षप्रसिद्धिरिति ।
अथानाभोगिकमिथ्यात्वमाहदार्शनिकोपयोगशून्यजीवानां मिथ्यात्वमनाभोगिकम् ॥
दार्शनिकेति । विशेषज्ञानविकलानामित्यर्थः, ते च विचारशून्या एकेन्द्रियादयो वा, अन्ततस्स्पर्शोपयोगस्यैकेन्द्रियादावपि सत्त्वादुपयोगशून्यजीवाप्रसिद्धिप्रयुक्तासम्भवन्यक्काराय 25 दार्शनिकेति । तत्राऽऽभिग्रहिकाभिनिवेशिके विपर्यासरूपत्वेन सानुबन्धक्लेशमूलत्वाद्रीयसी,