________________
मिथ्यात्वम् ]
न्यायप्रकाशखमलते तत्रायथार्थश्रद्धानं मिथ्यात्वम् । तच्चाऽऽभिग्रहिकानाभिग्रहिकाऽऽभिनिवेशिकसांशयिकानाभोगिकभेदेन पञ्चविधम् ।। ___ तत्रेति । मिथ्यात्वादिचतुष्टय इत्यर्थे । यथार्थश्रद्धा हि सम्यग्दर्शनं, तद्विपरीतं मिथ्यात्वं, तत्त्वार्थश्रद्धानाभावोऽतत्वाध्यवसायरूपः, न तु विपर्यस्तश्रद्धानं विवक्षितं, सांशयिकादावसम्बध्यमानत्वात् तथा च तेषामसम्यग्रूपतया सम्यग्दर्शनविपरीतत्वान्नासङ्ग्रहः । तद्विभजते 5 तश्चेति ॥
अथाऽऽभिग्रहिकमाचष्टेकुदर्शने सद्दर्शनजन्यं श्रद्धानमाभिग्रहिकम् ॥
कुदर्शन इति । कुदेवकुगुरुकुधर्ममये दर्शने सद्दर्शनमिति मान्यता । इदमेव दर्शन समीचीनं नान्यदित्येवं वा यच्छ्रद्धानं, दर्शनाभासे तस्मिन् ग्राह्यत्वमतिस्तदभिग्रह आग्रहस्त- 10 निवृत्तत्वादाभिनहिकं मिथ्यात्वमुच्यत इति भावः । कुदर्शनविशेष्यकसदर्शनत्वप्रकारकज्ञानजन्यश्रद्धानत्वं लक्षणम् । सद्दर्शने सहर्शनत्वप्रकारकज्ञानजन्यश्रद्धानवारणाय कुदर्शनविशेष्यकेति । कुदर्शनं दर्शनर्मितिश्रद्धानस्य मिथ्यारूपत्वाभावात्सदिति, कुदर्शनं तुच्छमिति ज्ञानजन्यस्वदर्शनश्रद्धानेऽतिप्रसक्तिनिवारणाय सद्दर्शनत्वप्रकारकेति । अहंदर्शनं सत्यमन्यद्वेति सांशयिकमिथ्यात्वे व्यभिचारवारणाय जन्यश्रद्धानमिति । एवमप्रेऽपि यथा- 15 सम्भवमूह्यम् ॥
अनाभिग्रहिकमभिधत्ते
सर्वदर्शनविशेष्यकसमत्वप्रकारकप्रतिपत्तिप्रयोजकं श्रद्धानमनाभिग्रहिकम् ॥
सर्वदर्शनेति । सर्वाणि दर्शनानि समीचीनान्येवेति मन्वानस्सर्वत्र साम्यतया श्रद्धां 20 विदधाति सा श्रद्धा अनाभिग्रहिकमिथ्यात्वमिति भावः। तथा मन्वानो यदा सन्देग्धि तदा सांशयिकं मिथ्यात्वं भवति तद्वारणाय श्रद्धानपदम् । अत्र तादृशप्रतिपत्तिजन्यं श्रद्धान
१. लक्षणमिदमुपलक्षणं तेन सद्दर्शनधर्मिककुदर्शनत्वप्रकारकज्ञाननिबन्धनश्रद्धानत्वस्याऽपि सङ्ग्रहः । दर्शनशब्दोपादानेन देवगुरुधर्माणामपि तदन्तर्गततया तेऽपि गृहीता एवेति न न्यूनता बोध्या ॥ . .. २. एवं देवगुरुधर्माणामपि ग्रहणं विज्ञेयम् ॥