________________
: २३८ : तत्त्वन्यायविभाकरे
[ नवमकिरणे पलम्भात् । तस्मात्कार्मणशरीरेणानादिसम्बद्धस्याऽऽत्मनस्संसारिण औदारिकादिशरीरसम्बन्धाद्बन्धसिद्धिरिति ॥
ननु कारणमन्तरेण न कापि कार्य दृष्टं, बन्धश्च कार्य तेनापि सकारणेन भवितव्यं, यद्यकस्मात्स तर्हि मोक्षोऽपि तथैव स्यात् न च तौ तथा, तदर्थ क्रियायाः विरोधप्रसङ्गात् 5 अतो बन्धकारणनिर्देशोऽवश्यं वाच्य इति तत्कारणान्याह
स च मिथ्यात्वाविरतिकषाययोगैर्यथायोगं समुत्पद्यते ।
स चेति । बन्धश्चेत्यर्थः। ननु बन्धकारणता मिध्यात्वादीनां समुदाये वा स्यादवयवे वा स्यादित्याशङ्कायामाह यथायोगमिति । तथाच न सर्वेषामेव हेतुत्वमपि तु मिथ्यादृष्टे
श्चत्वारः समुदिता बन्धहेतवः, सास्वादनसम्यग्दृष्टिसम्यमिथ्यादृष्ट्यसंयतसम्यग्दृष्टीनाम10 विरत्यादयस्त्रयः, संयतासंयतस्याविरतिमिश्रौ कषाययोगौ च, प्रमत्तसंयतस्य, अप्रमत्तादीनां
चतुर्णा च कषाययोगौ, शान्तक्षीणकषायसयोगकेवलिनां योग एव, अयोगकेवलिनां न बन्धहेतुः । तत्रापि मिथ्यात्वादीनि अवान्तरभेदविशिष्टानि प्रत्येकं बन्धकारणानि, नहि सर्वाणि मिथ्यात्वादीनि एकत्र जीवे युगपत्सम्भवन्ति नाऽपि हिंसादयः सर्वे परिणामा
इति यथायोगशब्दरहस्यार्थः । यद्यपि तत्त्वार्थे प्रमादमपि गृहीत्वा पञ्चहेतुकत्वं 15 बन्धस्योक्तं, तथाऽप्यत्र कर्मग्रन्थानुसारेण चातुर्विध्यमुक्तम् , तत्र प्रकर्षण माद्यत्यनेनेति
प्रमादः, विषयक्रीडाभिष्वङ्गः, यत्नारब्धेऽप्यनुत्थानशीलता वा । प्रचुरकर्मेन्धनप्रभवनिरन्तराविध्यातशारीरमानसानेकदुःखहुतवहज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि, सति च तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यस्माद्विचित्रकर्मो
दयसाचिव्यजनितात्परिणामविशेषादपश्यन्निव तदुभयमविगणय्य विशिष्टपरलोकक्रियाविमुख 20 एवाऽऽस्ते जीवस्स खलु प्रमादस्तत्र हेतवोऽष्टौ, अज्ञानं-मूढतारूपम् , किमेवं स्यादन्यथावे
त्यादिरूपस्संशयः, विपर्यस्तताप्रतिपत्तिरूपं मिथ्याज्ञानं, रागो द्वेषो विस्मरणशीलता लक्षणस्मृतिभ्रंशः, अर्हत्प्रणीतधर्मानादरात्मकोऽनुद्यमः, मनोवाकायानां दुष्टताकरणमिति,
प्रमादोऽयं मद्यविषयकषायादिमिर्जायत इति मिथ्यात्वादिचतुर्विधेष्वेव यथायथमन्तर्भाव ___ इति कृत्वा लाघवार्थिना मूलकारेण पृथङ्नोक्त इत्यवधेयम् । एते चत्वारो बन्धस्य सामान्य25 हेतवो विशेषहेतवस्तु प्रदोषनिह्नवादयोऽप्र आवेदयिष्यन्ते इति दिक् ॥
... तत्र मिथ्वात्वादीनामवान्तरभेदापेक्षया बन्धस्य सप्तपञ्चाशद्विधत्वात्तानाख्यातुमादौ मिथ्यात्वं निर्वक्ति