________________
बन्धः ]
न्यायप्रकाशसमलङ्कते । यत्स्वभावस्स शश्वत्तद्वान् यथोष्णस्वभावो वविश्शश्वदौष्ण्यवान् ज्ञानस्वभावश्चाऽऽत्माततस्सोऽपि शश्वसद्वानित्यनुमानेन शश्वज्ज्ञानवतः स्वगोचरज्ञान प्रतिबन्धदर्शनेन तत्प्रतिबन्धकज्ञानावरणादिकर्मसिद्धेः, भूताविष्टपुरुषस्य स्वज्ञानप्रतिबन्धकभूतवत् । तच्च कर्मपौगलिकमेव, नात्मगुणरूपं, अमूर्तेरनुग्रहोपघाताभावात् आकाशं ह्यमूर्त दिगादीनाममूर्तानां नानुप्राहकं न वोपघातकश्च दृष्टं तथैवामूतं कर्म कथममूर्तस्यात्मनोऽनुग्रहोपघातयो- 5 हेतुर्भवेत् । न च तथापि कथं मूर्तेन कर्मणाऽमूर्तस्यात्मनो बन्धो नहि पुद्गलेनामूर्तेन अमू
"नामाकाशादीनामनुग्रहोपघातौ दृष्टावितिवाच्यम् , आत्मनः कर्मसम्बन्धस्यानादित्वेनैकान्तिकामर्त्तत्वासिद्धेः । अत एवामर्तस्य ज्ञानस्य कथं मर्तेन ज्ञानावरणीयेन प्रतिबन्ध इति शंकापि परास्ता कथञ्चिन्मूर्तादात्मनो ज्ञानस्य सर्वथा भेदाभावेन तस्याऽपि कथञ्चिन्मूर्तत्वात् । एवञ्च निखिलकर्मात्मकस्य कर्माधारभूतस्य सर्वेषामौदारिकादिशरीराणां कारणभू- 10 तस्य प्रवाहतोऽनादिरूपस्य आमोक्षं जीवाविनाभूतस्य कार्मणशरीरस्य मिथ्यात्वादिप्रसूतस्य सिद्धौ तच्छरीरयुक्तो जीवः कर्मप्रायोग्यवर्गणा औदारिकादिवर्गणाश्च गृह्णन् योगवान् कषायस्नेहानुलिप्तः कर्मरजोभिरौदारिकादिशरीरैश्च कथश्चिदभेदेन सम्बध्यते, अत एव च तदवच्छिन्नस्यात्मनस्सुखदुःखानुभवः, स्ववीर्येणौदारिकादिपुद्गलानां चेतनतया परिणमितत्वात् । अन्यथा शरीरस्य जीवादत्यन्तभेदात्तदवच्छेदेन तस्य सुखदुःखसंवेदनं न स्यादिति। 15 न च कार्मणशरीरस्य मूर्त्तत्वे औदारिका दिशरीरवत्तस्यैन्द्रियकत्वप्रसङ्ग इति वाच्यम् , मूर्तमात्रस्यन्द्रियकत्वमिति नियमाभावात् , अत्यन्तसूक्ष्मतया परिणतत्वेन तस्य वैक्रियादिशरीरस्येव चर्मचक्षुषामतीन्द्रियत्वोपपत्तेः । कार्मणशरीरवत्त्व एव जीवो भवान्तरं प्राप्नोति, नान्यथा, औदारिकादिशरीरस्य तद्भव एव त्यागात् शरीरान्तरस्य चाभावात् । न चाऽशरीरस्यैव भवान्तरप्राप्तिरिति वाच्यम् , सदेहस्यैव तस्याऽत्र गमनदर्शनेनाऽन्यत्राऽपि तथाऽनुमा- 20 नात् , अत एव पूर्वप्रयोगादेवाशरीरस्य मुक्तस्य गमनमुक्तं, न चाऽचेतनस्य कथं देशान्तरप्रापणसामर्थ्यमिति वाच्यम् चेतनाधिष्ठितस्याचेतनस्याऽपि पोतादेरिव देशान्तरप्रापणसामो
१. अखिलज्ञेयज्ञातृस्वभावस्यात्मनो ज्ञानं- सप्रतिबन्धक, स्वगोचरज्ञानप्रतिबन्धदर्शनात् भूताविष्टपुरुषज्ञानवत् इत्यनुमाने तेन भूताविष्टपुरुषज्ञानप्रतिबन्धकभूतवत् निखिलज्ञेयज्ञातृस्वभावस्यात्मनोऽपि ज्ञानस्य प्रतिबन्धकं कर्म सिद्धयति तेन च कार्मणशरीरमारभ्यते, तदभावे औदारिकादिशरीरसम्बन्धासिद्धेः, न 95 हि मूर्तामूर्तयोघंटाकाशयोरिवौदारिकादिशरीरात्मनोः परस्परानुप्रवेशस्सम्भवति। न च कथं कार्मणशरीरस्यात्मनामर्तेन सम्बन्धः, अनादिकालादात्मना कथञ्चित्तादात्म्यस्याभ्युपगम्यमानत्वेन तत्र पर्यनुयोगा सम्भवात् । जीवकर्मसंयोगस्यानादित्वेऽपि बीजाङ्करयोर्मध्येऽनिवर्तितकार्यस्य कस्यचिन्नाशः तत्समाननाशवत् तपस्संयमाद्यपायात्स व्यवच्छिद्यत इति बोध्यम् ॥