________________
: २३६ : तत्त्वन्यायविभाकरे
[ नवमकिरण अथोक्त आगन्तुककर्मनिरोधकस्संवरो बद्धकर्मविध्वंसिका निर्जरा च, तत्र किमात्मकः कर्मणां बन्धः केन वा स इत्याकांक्षायामुपोद्घातसङ्गत्या बद्धकर्मणामित्यादिनिर्जरालक्षणेन बन्धस्य स्मृतत्वात्प्रसङ्गसङ्गत्याऽवसरसङ्गत्या वा बन्धं निरूपयितुकामः प्रथमं बन्धं लक्षयति
आत्मप्रदेशैश्शुभाशुभकर्मसम्बन्धो बन्धः॥ 5 आत्मप्रदेशैरिति । सहार्थे तृतीया, आत्मप्रदेशैरसह शुभानां पुण्यरूपाणामशुभानां पापात्मकानाञ्च कर्मणां पुद्गलविशेषाणां सम्बन्धो नीरक्षीरवत्परस्पराश्लेषः कथञ्चिद्भेदाभेदरूपस्तदतिरिक्तसम्बन्धाभावात् सम्बन्धनरूपत्वाद्बन्ध इत्यर्थः । आत्मना सहेव सम्बद्धानां कर्मपुद्गलानां सम्बन्धो बन्ध उच्यते न घटादिना पुद्गलसम्बन्धस्येति सूचयितु
मात्मेत्युक्तं, प्रदेशेन सहाऽपि बन्ध इति सूचयितुं प्रदेशैरिति । अत्र शुभाशुभकर्मस10 म्बन्धस्यैवबन्धरूपत्वं विवक्षितं, न तु शुभाशुभात्मककर्मवर्गणानामित्यभिप्रायं सूचयितुं
शुभाशुभकर्मसम्बन्ध इति, अत एव पुण्यपापाभ्यां बन्धस्य पृथगुपादानं कृतम् । वस्तुतः कर्मणश्शुभरूपत्वमशुभरूपत्वञ्चेति द्वैविध्यमेव, उभयविधेनाऽपि कर्मणा सम्बन्धो बन्धो भवतीति सूचयितुं शुभाशुभेति, कर्मपदेन कर्मयोग्यपुद्गला ग्राह्याः, जीवग्रहण
पूर्वं तेषां कर्मपरिणामाभावात् । शुभाशुभकर्मपदेनोत्तरप्रकृतिबोधात्तस्यैव बन्धो लक्षितो 15 न मूलप्रकृतिबन्धस्तथाचाऽव्याप्तिस्तत्र स्यात्तद्वारणायात्मप्रदेशैः कर्मसम्बन्धो बन्ध इत्येव
लक्षणशरीरं विज्ञेयम् । अयश्च भावबन्ध उच्यते । यस्तु प्रयोगबन्धो विस्रसाबन्धश्च द्रव्यंबन्धरूपस्स नेहविवक्षितोऽप्रकृतत्वात् । आत्मप्रदेशैः पुद्गलसम्बन्धस्य न बन्धत्वं, मुक्तात्मना जीवेन सह पुद्गलसम्बन्धसत्त्वात् , पुद्गलानां व्यापकत्वात् लोकस्याञ्जनचूर्णपूर्णसमुद्कव
त्पुद्गलैः परिपूर्णत्वात् कर्मपदोपादाने च कर्मयोग्यपुद्गलानामेव ग्रहेण तत्सम्बन्धस्य तत्र 20 विरहान्न क्षतिः, रागादिगुणयोगाद्धि जीवः कायादियोगेन कर्मवर्गणायोग्यपुद्गलस्कन्धाना
दाय कर्मरूपतया परिणमय्याऽऽत्मसात्करोति नान्य इति, आत्मप्रदेशैरित्यनेन जीवस्स्वप्रदेशावगाढमेव दलिकं गृह्णाति न त्वनन्तरपरम्परप्रदेशावगाढं, तत्राऽपि एकस्मिन् जीवप्रदेशे यदवगाढं ग्रहणप्रायोग्यं दलिकं तदेकमपि सर्वैरेवात्मप्रदेशैगृह्णाति तस्य सर्वप्रदेशानां
शृंखलावयवानामिव परस्परं संबद्धत्वात् , व्याप्रियमाणे चैकप्रदेशेऽनन्तरपरम्परतया तद्र25 व्यग्रहणाय सर्वप्रदेशानामपि व्याप्रियमाणत्वात्तथा सर्वत्रापि सर्वप्रदेशेष्वपि सर्वान् ग्रहण
प्रायोग्यानवगाढान् स्कन्धान्सवैरेवाऽऽत्मप्रदेशैर्गृहातीत्यप्यर्थस्सूचितः। ननु कर्मैव नास्ति कुतस्तस्य जीवप्रदेशैरसम्बन्ध इति चेन्न, आत्मा स्वरूपेण शश्वज्ज्ञानवान तत्स्वभावत्वात् , यो
१. प्रयोगेण भावबन्धो द्रव्यबन्धश्च भवति तत्र प्रयोगजन्यो द्रव्यबन्धो नेह विवक्षितस्तेन भावबन्धस्य प्रयोगजन्यत्वेऽपि न क्षतिरितिभावः ॥