________________
निर्जरा ]
न्यायप्रकाशसमलङ्कृते
चारित्वं, शुक्लध्यानसामानाधिकरण्याभावात् । शुक्ललेश्यायाश्च व्युपरत क्रियातिरिक्तध्यानविशिष्टत्वं, अयोगिनि लेश्या वैधुर्यात् । सामायिकछेदोपस्थापनीययोर्निदानातिरिक्तार्त्तभेदत्रयं धर्मध्यानचतुष्टयं पृथक्त्ववितर्कच भवति । परिहारविशुद्धिकस्याऽनन्तरोक्तानि पृथक्त्ववितर्कविरहितानि भवन्ति श्रेणिप्रात्यभावात् । सूक्ष्मसम्परायस्य पृथक्त्ववितर्कं धर्मचतुष्टयं वा । दशमगुणस्थानमात्रवृत्तित्वात्तस्य यथाख्यातस्य चतुर्विधं शुक्लध्यानं धर्मध्यानं वा । मनः पर्यवज्ञानिनो 5 निदानातिरिक्तमार्त्तत्रयं धर्मचतुष्टयं शुकस्याद्यद्वय भवति । गतित्रिकाज्ञानत्रिकाविरतिदेशविरत्यभव्यतामिध्यात्वसास्वादनमिश्रभावानां ध्यानाष्टक साहचर्यं धर्मशुक्लाभावादिति दिक् ॥
: २३५ :
अथाऽभ्यन्तर तपोभेदस्यावान्तरमन्तिमं व्युत्सर्गमाह -
अनेषणीयस्य संसक्तस्य वान्नादेः कायकषायाणाञ्च परित्यजनमुत्सर्गः ॥ इति निर्जरातस्त्वम् ॥
अनेषणीयस्येति । विविधस्योत्सर्गो व्युत्सर्गः, व्युत्सर्जनं व्युत्सर्गः । स द्विविधः, बाह्य आभ्यन्तरश्चेति । अनेषणीयस्य संसक्तस्यान्नपानोपध्यादेर्बाह्य द्रव्यस्य शास्त्रोदितविधिना परित्यागो बाह्यव्युत्सर्गः । आभ्यन्तरस्तु पर्यन्तकाले कायस्य संसारपरिभ्रामककषायाणां करणत्रिकैः कृतकारितानुमतिभिश्च परित्यागः, तदेतदभिप्रायेण समुचित्य तत्स्वरूपमाहानेष - णीयस्येति । न चाऽपरिग्रहादस्य गतार्थत्वमिति वाच्यम्, तस्य धनहिरण्याद्यमूर्च्छाविषयक - 15 त्वात् । नच प्रायश्चित्तान्तर्गतोऽयमिति वाच्यम्, तस्य प्रतिद्वन्द्व्यतिचारसापेक्षत्वात्, अस्य तु निरपेक्षत्वात् । नचाऽनेकत्रास्य वचनमनर्थकमिति वाच्यम् कचित्सावद्यप्रत्याख्यानात्, क्वचिन्निरवद्यस्यापि नियतकालं प्रत्याख्यानात् क्वचिच्चाऽनियतकालमिति निवृत्तिधर्मस्य पुरुषशक्त्यपेक्षत्वादुत्तरोत्तरगुणप्रकर्षादुत्साहोत्पादनार्थत्वाश्च न पौनरुक्त्यमितिभावः । अथ निर्जरां निगमयतीतीति ॥
इति तपोगच्छनभोमणि - श्रीमद्विजयानंद सूरीश्वर पट्टधर- श्रीमद्विजयकमलसूरीश्वरचरणनलिनसन्यस्तात्मभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां निर्जरानिरूपणं
नामाष्टमः किरणः ॥
१. अतिचारविशेषापेक्षणरहितत्वात्, सामान्येन निर्जरार्थत्वादिति भावः ॥
10
20