________________
: २३४ :
तस्वन्यायविभाकरे.
[ अष्टमकिरणे
व्युपरतक्रिये इत्यर्थः, सूक्ष्मक्रियं सयोगिनो व्युपरतक्रियमयोगिन इति तात्पर्यम् । अत्र भावनादेशकालासनविशेषा धर्मध्यानवत् । ध्यातव्या अवान्तरभेदा ध्यातारश्च मूल एव प्रदर्शिताः, क्षान्तिमार्दवार्जवादीन्यालम्बनानि, मनोयोगनिग्रहस्ततो वाग्योगनिग्रहस्ततः काययोगनिग्रह इति भवान्तकाले केवलिन आश्रित्य योगनिग्रहक्रमः, छद्मस्थ स्त्रिभुवनविषयमन्तः5 करणं प्रतिवस्तु त्यागलक्षणक्रमेण संकोच्याणौ विधायाऽतीव निश्चलश्शुक्लं ध्यायति, जिनस्तु चरमद्वयध्याता ततोऽपि प्रयत्नविशेषान्मनोऽपनीयाविद्यमानान्तः करणो भवति । तत्रापि शैलेशीमप्राप्तोऽन्तर्मुहूर्त्तेनाऽऽयं शैलेश्याश्च द्वितीयं ध्यायति । आश्रवद्वारापायान् संसाराशुभानुभावं अनन्तभव सैन्तानं वस्तुविपरिणाम चिन्तयतीति भावना, आद्यद्वयभेदापेक्षयाऽस्य भावना, शुकुलेश्या प्रथमत्रयभेदेऽन्तिमे च लेश्याविरहो बोध्यः । अवधासंमोह विवेक10 व्युत्सर्गा लिङ्गानि । शुभाssस्रवनिर्जरानुत्तरामरसुखानि द्वयोश्शुक्लयोः, अन्त्ययोस्तु परमनिर्वाणं फलमिति बोध्यम् ॥
अत्र ध्याने षोडशपादात्मक एकेन्द्रियविकलेन्द्रियस्थावर संज्ञ्य संज्ञिमनुजगतित्र सकायपश्चेन्द्रिययोगत्रयकषायचतुष्टयाहारकानाहार कोपशमक्षयोपशमक्षायिक सम्यक्त्ववेदत्रिकज्ञानत्रिकदर्शनत्रिकभव्याभव्यमिध्यात्व सास्वादनमिश्रा विरतिदेश विरतिगतित्रिकाज्ञानत्रिकलेश्या15 षट्ककेवलज्ञानदर्शन सामायिकछेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्म सम्पराययथाख्यातमनः पर्यवान् षटूत्रिंशद्विधानाश्रित्य विचार्यमाणे, एकेन्द्रियविकलेन्द्रियस्थावरासंज्ञिनां मनसोऽभावेन नैकविधमपि ध्यानं सम्भवति, मनुजगतित्रसकाय पञ्चेन्द्रियक्षायिक सम्यक्त्वभव्येषु प्रत्येकं षोडशविधध्यानस्य सम्भवः, योगत्रयाहारकत्वयोः पञ्चदशविधध्यान सामानाधिकरण्यस्य सम्भवः, व्युपरत क्रियात्मक ध्यानविशेषसामानाधिकरण्यासम्भवात् । उपशमसम्यक्त्व कषाय20 चतुष्टयवेदत्रिषु त्रयोदशविधध्यान सहचारित्वस्य सम्भवः, क्षीणमोहादिगुणस्थानेष्वेषामसम्भवेन तत्स्थानभाव्येकत्व वितर्क सूक्ष्म क्रियव्युपरत क्रियैस्सहचारित्वासम्भवात् । ज्ञानत्रिकदर्शनत्रिकसंज्ञित्वेषु चतुर्दशविधध्यान सहवृत्तित्वसम्भवः, मनोविरहकालभावि सूक्ष्मक्रियव्युपरत क्रियध्यानविशेष सहवृत्तित्वासम्भवात् । अनाहारकत्व केवलज्ञानदर्शनेषु सूक्ष्मक्रिय - व्युपरतक्रियध्यानविशेषसामानाधिकरण्यमेव । त्रयोदशचतुर्दशगुणस्थान भावित्वात्तेषाम् । 25 इतरध्यानानां मनोविषयकत्वाच्च । पञ्चसु लेश्यासु क्षायोपशमिकसम्यक्त्वे च द्वादशध्यान सह
१. काययोग एव सूक्ष्मक्रियस्य भावात् एकत्ववितर्कस्य कायवाङ्मनोऽन्यतमयोग एव भावात् पृथक्त्ववितर्कस्य तु मनोवाक्काययोगव्यापारवत एव भावादिति भेदो विज्ञेयः ॥ २. अणोरपीत्यर्थः ॥ ३. भाविनारकाद्यपेक्षयेति भावः ॥