________________
ध्यानम् ]
अथ सूक्ष्मक्रियमाह -
न्यायप्रकाशसमलङ्कृते
: २३३ :
सूक्ष्मकाय क्रियाप्रतिरुद्धसूक्ष्मवाङ्मनः क्रियस्य सूक्ष्मपरिस्पन्दात्मकक्रियावद्ध्यानं सूक्ष्मक्रियम् । इदमप्रतिपाति, प्रतिपाताभावात् ॥
सूक्ष्मकाय क्रियेति । मोक्षगमनप्रत्यासन्नसमये केवलिनो मनोवाग्योगद्वये निरुद्धे सत्यर्धनिरुद्धकाययोगस्योच्छ्वास निःश्वासलक्षणा तन्वी क्रियैव यत्र तथाविधं सूक्ष्मक्रियात्मकं 5 ध्यानमित्यर्थः । प्रथमं मनोयोगनिग्रहे ततो वाग्योगनिग्रहे ध्यानमिदं भवति । ध्यातुरस्य परिणामविशेषस्य प्रवर्धमानत्वेनेदं ध्यानमप्रतिपातीत्युच्यते, इत्याहेदमिति, हेतुमाह प्रतिपाताभावादिति, परिणाम विशेषस्येत्यादिः ||
अथ व्युपरत क्रियमाचष्टे
निरुद्धसूक्ष्म कायपरिस्पन्दात्मकक्रियस्य ध्यानं व्युपरतक्रियम् इद- 10 मप्यप्रतिपाति । आये द्वे एकादशद्वादशगुणस्थानयोरन्त्ये द्वे केवलिन एव त्रयोदशचतुर्दशगुणस्थानक्रमेण ॥
निरुद्धेति । शैलेश्यवस्थावस्थितानां मनोवाक्काययोगत्रयरहितानां यद्ध्यानं तद्वद्युपरतक्रियमुच्यते । ननु शुक्लध्यानस्यान्तिमभेदद्वये मनसोऽभावेन मनोविशेषरूपध्यानत्वं कथमस्त चेन्न मनोमात्रस्य ध्यानरूपत्वाभावात् किन्तु सुनिश्चलस्यैव योगस्य तथात्वात् तस्य केवलि - 15 नस्सयोगिनस्सूक्ष्म क्रियात्मके ध्यानेऽक्षतेः कायात्मकयोगस्य सुनिश्चलत्वात् न च तथाऽप्ययोगिनो ध्याने चतुर्थे योगस्यापि कायस्याभावेन तत्राऽनुपपत्तितादवस्थ्यमिति वाच्यम्, कुलालचक्रभ्रमणवन्मनःप्रभृतियोगोपरमेऽपि पूर्वप्रयोगाद्ध्यानोपपत्तेः, द्रव्यमनसोऽभावेऽपि भावमनसस्सत्त्वेन ध्यानसंम्भवात् चेतसो ज्ञानरूपत्वेनैकविषयस्थिरीभूतज्ञानपरिणामरूप"यानस्यात्राप्यक्षतत्वाच्च ॥ प्रवर्धमानपरिणामविशेषवश्वादिदमप्यप्रतिपातीत्याहेदमपीति । 20 शुक्रुध्यानस्याधिकारिणमाहाद्ये इति । पृथक्त्ववितकत्ववितर्के इत्यर्थः, एकादशद्वादशगुणस्थानयोरिति । यथाक्रममिति शेषः, तथाच पृथक्त्ववितर्क मेकादशे, एकत्ववितर्क द्वादश इत्यर्थः । अन्तिमावधि प्रदर्शनपरमिदं, नाग्रिमगुणस्थानवर्त्तिनी इमे भवत इति भावः । पृथक्त्ववितर्कस्याsपूर्वगुणस्थानादिवर्त्तिनस्सम्भवेऽपि न क्षतिः । एकत्ववितर्कन्तु द्वादशगुणस्थान एव । अपूर्वगुणस्थानादाद्वादशमिदमपीति केचित् । अन्त्ये द्वे इति सूक्ष्मक्रिय - 25
३०