SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ तस्वन्यायविभाकरे [ अष्टमकिरणे अथ प्रत्येकं तेषां भावमाह पूर्वविदां पूर्वश्रुतानुसारतोऽन्येषां तमन्तरेणार्थव्यञ्जनयोगान्तरसक्रान्तिसहितमेकद्रव्य उत्पादादिपर्यायाणामनेकनयैरनुचिन्तनं पृथक्त्ववितर्कम् । इदं सविचारम् ॥ 5. पूर्वविदामिति । एकस्मिन् द्रव्ये पुद्गलात्मादिरूप उत्पादव्ययध्रौव्यमू"मूर्तनित्यानित्यादियथायोग्यपर्यायाणां नानानयैर्द्रव्यास्तिकादिभिरनुचिन्तनं स्मरणं, कथमित्यत्राह पूर्व विदा पूर्वश्रुतानुसारेण, अन्येषां मरुदेव्यादीनां तमन्तरेणापि खियः पूर्वश्रुतानधिकारात् । एतेन पूर्वज्ञानस्यैकान्तनियमो नास्तीति सूचितम् , पूर्व प्रणयनात् पूर्वाणि चतुर्दश, तद्विदः पूर्वविद स्तेषां पूर्वविदां, पुनः कथंभूतं चिन्तनमित्यत्राहार्थव्यञ्जनयोगान्तरसङ्क्रान्तिसहितमिति । 10 अर्थो ध्येयः-द्रव्यं पर्यायो वा, व्यञ्जनं तस्य वाचकं वचनं, योगः कायवाङ्मनःकर्म लक्षणः, अन्यो योगो योगान्तरं तेषां संक्रान्तिः परिवर्तनं द्रव्यं विहाय पर्याय पर्याय विहाय द्रव्यं यदुपैति साऽर्थसङ्क्रान्तिः, एकं श्रुतवचनमुपादाय वचनान्तरमालम्बते तदपि विहायान्यदिति व्यञ्जनसङ्क्रान्तिः, काययोगं त्यक्त्वा योगान्तरं गृह्णाति तच्च त्यक्त्वाऽ न्ययोगमिति योगसङ्क्रान्तिः, अर्थव्यञ्जनयोगान्तरसहितत्वादिदं ध्यानं सविचारमुच्यत 15 इत्याशयेनाहेदमिति । सविचारमिति, सह विचारेणार्थव्यञ्जनयोगान्तरसङ्क्रान्त्या वर्तत इति सविचारम् । योगान्तरसङ्क्रान्तिरूपत्वादस्य ध्यानस्य योगत्रयव्यापारवतस्सम्भव इत्यपि पदेनानेन सूच्यते ॥ अथ द्वितीयप्रकारभावमाह पूर्वविदां पूर्वश्रुतानुसारेणाऽन्येषां तद्भिन्नश्रुतानुसारेणाऽर्थव्यजनयो20 गान्तरसङ्क्रान्तिरहितमेकद्रव्ये एकपर्यायविषयानुचिन्तनमेकत्ववितर्कम् । .. इदन्त्वविचारम् ॥ ... पूर्वविदामिति । व्याख्यातोऽर्थः, तद्भिन्नश्रुतानुसारेणेति, अत्र मरुदेव्यादीनां द्रव्यश्रुताभावेऽपि यत्किञ्चित् श्रुतमस्त्येवेति-सूचयितुं तमन्तरेणेत्यनुक्त्वा तद्भिन्नश्रुतानुसारेणेत्युक्तम् । अर्थव्यञ्जनयोगान्तरसंक्रान्तिरत्र नास्तीत्याहार्थव्यञ्जनयोगान्तरसङ्क्रान्तिरहितमिति, एकद्रव्य 25 इति, अभेदेनेति शेषः, अभेदेनैकद्रव्ये पर्यायविषयकालोचनमित्यर्थः, द्रव्याभिन्नपर्याय. विषयकं पर्यायाभिन्नद्रव्यविषयकं वेति यावत् । अर्थव्यञ्जनयोगान्तरसंक्रान्तिरहितत्वादेवेदं ध्यानमविचारमुच्यत इत्याहेदन्त्विति ॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy