________________
प्यानम् ] -
म्यायप्रकाशसमलते । ध्यायायति । शङ्कादिदोषरहितत्वात्प्रशमस्थैर्यादिगुणगणोपेतः तत्त्वान्तरेऽभ्रान्तचित्तो दर्शनशुद्ध्या ध्यानाय प्रवर्तते, चारित्रभावनयोपात्तकर्मक्षपणमनुपात्ताशुभानादानं सम्यक्त्वादिशुभकर्मादानमयत्वेन ध्यानश्च प्राप्नोति, जगत्तत्त्वस्य सम्यग्ज्ञानाद्विषयस्नेहसङ्गाभावादिह लोकादिसप्तभयराहित्यादिहपरलोकाकांक्षावैधुर्यात् तथाविधक्रोधादिराहित्याच्च वैराग्यभावितमना ध्याने निश्चलो भवति, अपरिणतयोगादीनां युवत्यादिव्यतिरिक्तापेक्षया विजनो देशो 5 ध्यानयोग्यदेशः, युवत्यादियुतदेशस्तु सर्वदा वर्ण्य एव । परिणतयोगानां सुनिश्चलमनसां तु जनाकीर्णो जनशून्यो वा देशो ध्यानाय कल्पते । यत्र काले मनोयोगादिस्वास्थ्यमुत्तमं लभते स एव ध्यानकालो न तु दिवसनिशावेलाविशेषाः । या काचिन्निषण्णतादिरूपा देहावस्था प्रकृतध्यानानवरोधिनी स एवाऽऽसनविशेषो ग्राह्यो न त्विदमेवासनं कार्यमिति नियमः । श्रुतधर्मानुगतानां वाचनप्रच्छनपरिवर्तनानुचिन्तनादीनां चारित्रधर्मानुगतानां सामा- 10 यिकादिसामाचारीणां सम्यगासेवनया वरं धर्मध्यानं समारोहति, योगनिरोधक्रमस्तु धर्मध्याने न नियमितः परन्तु यथा स्वास्थ्यं भवेत्तथा कार्यः । धर्मध्यानोपरमेऽपि सदा साधुनाऽनित्याशरणैकत्वसंसारभावनाः सचित्तादिष्वनभिष्वङ्गभवनिर्वेदादिस्थिरतायै भावनीयाः । अत्र स्थितस्य क्रमविशुद्धाः पीतपद्मशुक्ललेश्यास्तीब्रमन्दादिभेदा अनुकूला भवन्ति । आगमोपदेशाऽऽज्ञानिसर्गतस्तीर्थंकरप्ररूपितानां द्रव्यादिपदार्थानां श्रद्धानमस्य लिङ्गं, सूत्रमागमः, 15 तदनुसारेण कथनमुपदेशः, अर्थ आज्ञा, निसर्गः स्वभावः । तथा जिनसाधुगुणोत्कीर्तनप्रशंसादानविनयसम्पन्नः श्रुतशीलसंयमरतो धर्मध्यायीति विज्ञायते, तथैवं ध्यायतस्सुरलोकादिकं भवतीति धर्मध्याने निमित्तानि विज्ञेयानि । क्षीणमोहं यावदिति, उपशान्तमोहक्षीणमोहयोस्तु शुक्ले ध्याने वक्ष्यमाणे प्राथमिकद्विभेदे अपि भवत इत्यपि बोध्यम् ॥ अथान्तिमं शुक्लध्यानमाह
. ... 20 आज्ञाद्यविषयकं निर्मलं प्रणिधानं शुक्लम् । तच्च पृथक्त्ववितकैकत्ववितर्कसूक्ष्मक्रियव्युपरतक्रियभेदेन चतुर्विधम् ॥
आज्ञादीति । आज्ञापायाद्यविषयकनिर्मलप्रणिधानत्वं लक्षणं आ"दिवारणाय निर्मलेति, धर्मध्यानव्यावृत्तये आज्ञाद्यविषयकेति, तादृशज्ञानवारणाय प्रणिधानमिति । लक्षणेनास्य भेदाप्राप्तेः कण्ठतस्तमाह तच्चेति । पृथक्त्ववितर्कमाद्यं, पृथक्त्वेन भेदेन-विस्तीर्ण- 25 भावेन वितर्कः श्रुतं यस्मिस्तत्पृथक्त्ववितर्क, एकत्ववितर्क द्वितीयं, एकत्वेनाभेदेन वितर्को व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, सूक्ष्मक्रियं तृतीयं, सूक्ष्मा क्रिया यस्मिन्तत्सूक्ष्मक्रियं, अत्रोच्छ्वासनिश्वासादिकायक्रिया सूक्ष्मा भवति, व्युपरतक्रियं तुर्य, व्युपरता योगाभावात् क्रिया यस्य तद्व्युपरतक्रियमिति विग्रहः ।। .