________________
: २३०: तत्त्वन्यायविभाकरे
[ अष्टमकिरणे दिभिः प्रदुष्टान्तःकरणा जन्तवो मूलोत्तरप्रकृतिविभागसम्भूतजन्मजरामरणगहनविपिनपरिभ्रमणपरिश्रमप्रभवप्रभूतदुःखाकुलास्सांसारिकसुखस्पृहयालवश्शरीरेन्द्रियाद्याश्रवद्वारप्रवाहपतिता मिथ्यावाज्ञानाविरतिपरिणता यथायोगमार्त्तरौद्रध्यानविशेषाभ्यां पर्याप्तं कर्मजाल. मादाय दीर्घकालं नरकादिगतिष्वपार्ययुज्यन्ते । केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाद्याक्रोशभाजः क्लिश्यन्त इत्येवं प्रत्यवायप्रायेऽस्मिन् संसारे उद्वेगार्थमपापानां विचिन्तनं द्वितीयं धर्मध्यानम् । विपाकः कर्मफलानुभवस्तद्विवेकं प्रति प्रणिधानं विपाकविषयकपर्यालोचनं, तत्र ज्ञानावरणाद्यष्टविधं कर्म प्रकृतिस्थित्यनुभावप्रदेशभेदभिन्नमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं नरकादिविविधविपाक, तद्यथा ज्ञाना
वरणादुर्मेधस्त्वं, दर्शनावरणाचक्षुरादिवैकल्यं निद्रााद्भवश्च, असāद्याद् दुखं सवेद्यात्सुखानु10 भवः, मोहनीयाद्विपरीतग्राहिता चारित्रविनिवृत्तिश्च, आयुषोऽनेकभवप्रादुर्भावः, नाम्नोऽशुभ
प्रशस्तदेहादिनिर्वृत्तिर्गोत्रादुच्चनीचकुलोत्पत्तिः, अन्तरायादलाभ इति, एवं निरुद्धचेतसः कर्मविपाकानुस्मरणं तृतीयं धर्मध्यानं । लोकद्रव्यसंस्थानस्वभावावधानं संस्थानविषयकपर्यालोचनम् , लोकस्य द्रव्यस्य च संस्थानमाकारविशेषः, लोकस्याधोमुखमल्लसंस्थानमधोलोकः, तदु
ध्वं झल्लाकृतिस्तिर्यग्लोकः, स च ज्योतिय॑न्तराकुलोऽसंख्येयद्वीपसमुद्रपरिवेष्टितः ऊर्ध्वलोक 15 ऊर्वीकृतमृदङ्गाकृतिरुत्कृष्टशुभपरिणामोपेतः कल्पोपपन्नकल्पातीतदेवव्यापृत इत्येवं विचा
रणा, द्रव्याणां तावद् धर्माधी लोकाकारौ गतिस्थितिहेतू , आकाशमवगाहलक्षणं, आत्मान उपयोगलक्षणाश्शरीरादर्थान्तरभूता अरूपाः कर्तार उपभोक्तारो निजकर्मणां शरीराकारा मुक्तौ त्रिभागहीनाकाराः, कालो वर्तनादिपरिणामी समयात्मकः, पुद्गलद्रव्यं शरीरादि
कार्य, द्रव्यञ्चोत्पादव्ययध्रौव्ययुक्तमनन्तधर्मात्मकं नित्यानित्यैकानेकभेदाभेदसदसदादिस्वरूप20 मित्येवं प्रणिधानं चतुर्थं धर्मध्यानमित्यर्थः, ननु भावनानां धर्मध्यानेऽन्तर्भावस्तज्जातीयत्वा
दिति चेन्न, अनित्यादिविषयविचिन्तनस्य ज्ञानरूपत्वे भावनाव्यपदेशात् , एकाग्रचिन्तानिरोधरूपत्वे धर्मध्यानत्वादित्येवं प्रवृत्तिनिमित्तभेदात्। ध्यानोपरमकालभावित्वाच्च भावनानां ततोथान्तरत्वात् । अस्य ध्यातारमाहाप्रमत्तत इति, सर्वप्रमादै रहिता अप्रमत्तास्तेभ्य आरभ्य
क्षीणमोहपर्यन्तवर्तिनोऽस्य ध्यातारः, अत्र लक्षणघटकतया ध्यानकारणभूतो ध्यातव्यवस्तु25 निर्देशो धर्मध्यानावान्तरभेदः, अप्रमत्तत इत्यादिना ध्यातारश्च प्रदर्शिता उपलक्षकतया ।
तेन ज्ञानदर्शनचारित्रवैराग्यविषया भावनाः, योग्यदेशकालाऽऽसनविशेषा वाचनाद्यालम्बनं मनोनिरोधादिक्रमः, अनित्यत्वादिभावनाः लेश्याविशेषः श्रद्धानादिलिङ्ग सुरलोकादिफलं च गृह्यते । सदा हि ज्ञानविषयकोऽभ्यासोऽशुभव्यापारनिरोधेन चेतस एकस्मिन् विषयेऽवस्थापको विशुद्धिकृद् भवनिर्वेदकृच्च भवति, एवं च ज्ञानेन ज्ञातपरमार्थों निष्प्रकम्पं