________________
ध्यानम् ]
म्यायप्रकाशसमलङ्कृते
: २२९ :
हिंसेति । रोदयतीति रुद्रः क्रूरस्तस्येदं कर्म रौद्रं तत्र भवं वा । तदपि चतुर्विकल्पं, हिसानुबन्धिचिन्तनं - हिंसानिमित्तं चिन्तनमाद्यं, असत्यनिमित्तं द्वितीयं, स्तेयनिमित्तं तृतीयं, चतुर्थन्तु संरक्षणानुबन्धि विषयाणां शब्दादीनां तदानीं मनसः परितोषकराणां पश्चाच्च भृशं भीकरफलानां तत्साधनभूतानाश्च धनधान्यादीनां संरक्षणानुबन्धिध्यानमित्यर्थः । तदिदं अतिकृष्णनील कापोतलेश्याबलाधानं प्रमादाधिष्ठानं, नरकगतिफलावसानं मारणाभिलाष- 5 मरणेहाऽपरव्यसनप्रसन्नतानिर्दयत्वपरक्लेशकारित्वादिलिङ्गगम्यं, तीव्रवधबन्धसंक्लिष्टाध्यवसायप्रसवमवसेयम् । अस्य ध्यातारमाचष्टे आपञ्चममेतदिति । देशविरतं यावदित्यर्थः । आर्त्तरौद्रे ध्याने प्रकृष्टतमरागद्वेषानुगतत्वात् नरकादिचतुर्गतिकसंसारस्यैव हेतू भवतो न जातुचिन्मुक्तिहेतू इत्यवधेयम् ॥
सम्प्रति धर्मध्यानमाह -
आज्ञापायविपाकसंस्थानान्यतमविषयकं पर्यालोचनं धर्मध्यानम् । अप्रमत्ततः क्षीणमोहं यावत् ॥
10
आज्ञेति, धर्मः क्षमादिदृशलक्षणकः, नत्सम्बन्धिध्यानं धर्मध्यानम् । तच्चतुर्विधं, आज्ञाविषयक पर्यालोचनं, अपायविषयक पर्यालोचनं, विपाकविषयक पर्यालोचनं, संस्थान - विषयक पर्यालोचनेचेति । तत्रोपदेष्टुरभावेऽपि मन्दबुद्धित्वेऽपि कर्मोदयात्सूक्ष्मत्वाश्च 15 वस्तूनां लिङ्गनिदर्शनाला भेऽपि अवितथवादिनः क्षीणरागद्वेषास्सर्वज्ञा अन्यथा सन्तमन्यथा न जानन्त्येव न भाषन्त एव तत्कारणाभावात् अतस्सर्वथा सत्यमिदं तच्छासनं संसारसागरोत्तारकश्चेत्याज्ञां प्रमाणीकृत्यार्थावधारणमाज्ञाविषयकं पर्यालोचनरूपं प्रथमं धर्मध्यानम्। रागद्वेषकषायेन्द्रियवशीभूतानां प्राणिनां शारीरमानसदुःखचिन्तनं द्वितीयम्, रागद्वेषा
१. एकेन्द्रियादीनां वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं, पिशुनासभ्यासद्भूतघातादिवचनप्रणिधानं, परलोकापायनिरपेक्षपरद्रव्यहरणप्रणिधानं शब्दादिविषयसाधनपरिपालनव्यग्रत्वमिति चतुर्विधं रौद्रध्यानमिति भावः ॥ २. अपायोपायजीवाजीवविपाकविरागभवसंस्थानाऽऽज्ञाहेतुविचयानि चेति चतुर्विधेन संक्षिप्तमपि दशविधं तत् । दुष्टमनोवाक्कायव्यापाराणामपायः कथं हेयः स्यादित्येवंभूतस्संकल्पप्रबन्धो दोषपरिवर्जनस्य कुशलप्रवृत्तित्वादपायविचयम् । तेषामेव कुशलानां स्वीकरणमुपायः स कथमनुमेयः स्यादिति संकल्पप्रबन्ध उपायविचयं । असंख्येयप्रदेशात्मकसाकारानाका रोपयोगलक्षणादिस्वकृत कर्म फलोपभोगित्वादिचिन्तनं जीवविचयम् । धर्माधर्माकाशकालपुद्गलानामनन्तपर्यायात्मकत्वादिविचारोऽजीवविचयम् । विपाकविचयं टीकायामुक्तमेव । प्रेत्य स्त्रकृतकर्मफलभोगार्थं पुनः प्रादुर्भावो भवः, स चारघट्टघटीयंत्रवन्मूत्रपुरीषांत्र तंत्र निबद्ध दुर्गन्धजठरपुरकोटरादिष्वजस्रमावर्त्तनं, न चाऽत्र किश्चिज्जन्तोः स्वकृतकर्मफलमनुभवतश्चेतनमचेतनं वा सहायभूतं शरणतां प्रतिपद्यत इत्यादि भवसंक्रांत दोषपर्यालोचनं भवविचयम् । संस्थानविचयन्तु टीकायामुक्तम् । आज्ञा विचयमपि तत्रैव आगमविषयप्रतिपत्तौ तर्कानुसारिबुद्धेः पुंसः स्याद्वादप्ररूपकागमस्य कषच्छेदतापशुद्धिसमाश्रयणीयत्वगुणानुचिन्तनं हेतुविचयमिति ॥
1