________________
: २२८ : तत्त्वन्यायविभाकरे
[ अष्टमकिरणे .. तदिति । ध्यानमित्यर्थः शोकाक्रन्दनविलापादिलक्षणमातम् । उत्सन्नबद्धादिलक्षणं रौद्रम् । जिनप्रणीतभावश्रद्धानादिलिङ्गं धर्मम् । अबाधाऽसंमोहनादिलक्षणं शुक्लमिति, विस्तरस्तु यथाक्रममिति ॥
अथाऽऽत्तं लक्षयति5 इष्टानिष्टवियोगसंयोगरोगनिदानान्यतमविषयकं मोद्वेगचिन्तनमातम् । षष्ठगुणस्थानं यावदिदं भवति ।।
इष्टानिष्टेति । ऋतं दुःखं शारीरं मानसञ्चाऽनेकप्रकारं, अथवाऽदनमात्र्तिस्तत्र भवमातम् । तद्धि चतुर्विधं, तत्रं प्रथममिष्टानां मनोहराणां विषयाणां वियोगे सति तत्प्राप्त्यर्थ
सोद्वेगचिन्तनं अर्थान्तरचिन्तनादाधिक्येन प्रकृतेऽवरोधः, ते कथं नाम मे स्युरित्येवं विचि10 न्तनरूपम् । द्वितीय, अनिष्टानां शब्दस्पर्शरसगन्धानां विषयाणां संयोगे-इन्द्रियसम्बद्ध
सोद्वेगचिन्तनं तद्वियोगाय, कथमहमेभ्यो विमुच्येयेति चेतसो निश्चलीकरणम् । तृतीयं, रोगस्य प्रकुपितानां पवनपित्तश्लेष्मणां सन्निपातेन संजातस्य शूलज्वरादिरूपस्य प्रतिचिकीर्षां प्रत्यागूर्णस्यानवस्थितमनसः धैर्योपरमात् सोद्वेगचिन्तनम् । चतुर्थं पुनः निदानं कारणं मोक्ष
सुखं विरहय्य पुनर्भवविषयकसुखाय हेतुभूतं कामोपहतचेतसां तद्विषयकं सोद्वेगचिन्तनमिति । 15 चतुर्विधमपीदमा कृष्णनीलकापोतलेश्याबलाधानमज्ञानप्रभवं पौरुषेयपरिणामसमुत्थं पाप
प्रयोगाधिष्ठितं परिभोगप्रसङ्गं नानासङ्कल्पासङ्गं धर्माश्रयपरित्यागि कषायाश्रयोपस्थानमनुपशमप्रवर्धनं प्रमादमूलमकुशलकर्मादानं कटुकविपाकासद्वेद्यं तिर्यग्भवगमनपर्यवसानं क्रन्दनशोचनपरिदेवनताडनादिलिङ्गगम्यं विज्ञेयम् । ध्यानस्यास्य ध्यातारं दर्शयति षष्ठेति,
अविरतास्संयतासंयताः प्रमत्तसंयताश्चाऽस्य ध्यातारः केचित्प्रमत्तसंयता निदानं वर्जयित्वा 20 प्रमादोदयोद्रेकादार्त्तत्रयं विदधति नाप्रमत्तसंयतादयोऽस्य ध्यातार इति भावः ॥
अथ रौद्रमाह
हिंसाऽसत्यस्तेयसंरक्षणान्यतमानुबन्धिचिन्तनं रौद्रम् । आपञ्चममेतत् ॥
. १. अमनोज्ञवस्तुसम्बन्धेन सम्बद्धस्य तद्वियोगार्थ स्मृतिः मनोज्ञवस्तुसंयोगेन सम्बद्धस्यामनोज्ञवियोगार्थ स्मृतिः, प्रथमो भेदः, शूलशिरोरोगादिवेदनाया वियोगप्रणिधानं तादृशवेदनाया अभावेऽपि असम्प्रयोगचिन्ता द्वितीयो भेदः, इष्टवस्तूनामिष्टवेदनायाश्चावियोगाध्यवसानं तृतीयो भेदः, निषेवितकामभोगसम्प्रयोगसम्प्रयुतस्य तदविप्रयोगस्मृतिसमन्वाहारश्चतुर्थो भेद इत्यपि क्वचित् ॥ ..