________________
ध्यानम् ] न्यायप्रकाशसमलङ्कृते
:२२७: प्रत्ययेन कर्त्तसाधनः । करणप्रशंसापरायामभिधानप्रवृत्तौ समीक्षितायां यथा साध्वसिः छिनसीति प्रयोक्तृनिर्वय॑योस्सतोरप्युद्यमननिपतनतंत्रत्वाच्छेदनस्यासौ कर्तधर्माध्यारोपः क्रियते तथा दिध्यासोरप्यात्मनः ज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषतंत्रत्वाद् ध्यानादिपरिणामस्य कर्तत्वं युज्यते, पर्यायपर्यायिणोर्भेदाच्चास्य करणत्वमपि । एकविषयस्थिरतापादनमिति।" एकोऽन्यार्थेऽसहाये च प्रथमें केवले तथे" ति कोशादेकशब्दस्य बह्वर्थत्वेऽपि संख्यावाच्यत्रैकशब्दः। 5 वीर्यविशेषाद्धि निराबाधे स्थाने प्रज्वालिता दीपशिखेव चेतस एकस्मिन्विषये स्थिरतापादनं अनियतक्रियार्थस्य नियतक्रियाविशेषकतत्वेनावस्थापनम् , तच्च वाक्काययोरपि निरोध एवेति प्रोक्तं योगनिरोधपूर्वकेति वाक्कायनिरोधपूर्वकेत्यर्थः, अथवा मनोवाक्कायनिरोधपूर्वकेति तदर्थः, चेतशब्दस्य चिन्तापरपर्यायस्य ज्ञानमर्थः, तस्यैव यैकस्मिन्नर्थे स्थापनं ध्यानमुच्यते व्यग्रत्वे च तस्य ज्ञानत्वमेव नतु ध्यानत्वं, तथा च योगत्रयनिरोधपूर्वकं ज्ञानस्यैकविषयस्थि- 10 रतापादनं ध्यानमिति फलितार्थः । व्यापकमिदं लक्षणं छद्मस्थानां केवलिनाश्च ध्यानेष्विति सूचयितुमुक्तं योगनिरोध इति, योगनिरोधात्मकं केवलिनां ध्यानमप्येतादृशमेवेत्यर्थः । तत्रापि योगत्रयनिरोधपूर्वकं ज्ञानस्यैकविषयस्थिरतापादनस्य सत्त्वात् । नन्वेकस्मिन्नर्थे चित्तस्यैकक्रियाकर्तृत्वेन यद्यवस्थापनत्वस्यैव ध्यानत्वं तयर्थव्यञ्जनयोगसंक्रान्तिषु अर्थसङ्कमे द्रव्यात्पर्याये पर्यायाञ्च द्रव्ये सङ्क्रमरूपे शुक्लध्यानविशेषेऽव्याप्तमेकविषयकत्वाभावादिति चेन्मैवम् , 15 एकशब्दस्य प्राधान्यवाचित्वात् , अस्ति हि सङ्क्रमे तस्य तस्य प्राधान्यम् । तदिदं ध्यानमान्तमौहूर्तिकमेव, न दिवसमासादिपरिमाणं, ततःपरं दुर्ध्यानत्वाद् इन्द्रियोपघातप्रसङ्गात् अत एव न प्राणापानविनिग्रहो ध्यानं, तदुद्भूतवेदनाप्रकर्षेण शरीरपातप्रसङ्गात् , नापि मात्राकालपरिगणनं ध्यानं, वैयग्र्येण ध्यानस्वरूपहानिप्रसङ्गात् । ध्यानञ्चेदं गुप्त्यादिभिर्भवति । अन्यसंहननिनां तावत्कालमध्यवसायधारणसामर्थ्याभावादुत्तमसंहननवानेवाधिकारी, उत्तम- 20 संहननानि वर्षभनाराचवज्रनाराचनाराचार्धनाराचरूपाणीति ॥
नन्वनेन ध्यानेनाऽऽदयस्संगृहीता नवेति शङ्कायां सामान्येनोक्तं ध्यानं विभजमानस्सर्वानुस्यूतत्वं लक्षणस्याऽऽविष्करोति
तदातरौद्रधर्मशुक्लभेदेन चतुर्विधम् ॥
१. तथाच मनएकाग्रतालम्बनं ध्यानं, ध्यानाभ्यासक्रिया भावना उक्तप्रकारद्वयरहिता या मनश्चेष्टा सा चिन्तेति सूच्यते । २. योगनिरोध एव केवलिनो ध्यानं न तु चित्तावस्थानं, चित्तस्यैवाभावात् योगाश्चौदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव । ३. सप्तसप्ततिलवप्रमाणः कालविशेषो मुहूर्त तदन्तर एवध्यानं छद्मस्थानां, तत्परतो भावना चिन्ता वा भवेत् बहुवस्तुसंक्रमे सति सुचिरमपि ध्यानप्रवाहो वा भवेन्न त्वेकमेव ध्यानं दिवसादिमानं भवेदिति भावः ॥