________________
। ६३६ तस्वन्यायविभाकरे
[ अष्टसकिरणे पक्षे । क्रियाक्रियावतोरभेदपक्षे यथाश्रुतमपि सम्यगेव । तत्र किंरूपा आचार्यादय इत्यत्राह एतदिति, लक्षणानि स्वरूपाणि अग्रे सम्यक्चरणनिरूपणे ॥ । स्वाध्यायमाह
कालादिमर्यादयाऽध्ययनं स्वाध्यायः ॥ 5 कालादीति । आ मर्यादया शास्त्रप्रतिपादितयाध्ययनं पठनं आध्यायः सुष्ठु शोभन
आध्यायः स्वाध्यायः, तत्र हि अस्वाध्यायिकं संयमघात्युत्पातनिमित्तदेवताप्रयुक्तसंग्रामशारीररूपेण पञ्चविधं परसमुत्थं, एषु स्वाध्यायं विदधतस्साधोस्तीर्थकृदाज्ञाभङ्गादयो दोषा भवन्ति । अत ईदृशं कालं विहाय उचितकालेषु अध्ययनं स्वाध्याय उच्यते । आदिना
पौरुष्यपेक्षा ग्राह्या, तथाच कालवेलापरिहारेण पौरुष्यपेक्षयाऽध्ययनं स्वाध्याय इत्यर्थः । स 10 च. वाचनाप्रच्छनापुनरावर्तनाऽनुत्प्रेक्षाधर्मकथाभेदतः पञ्चविधः, शिष्येभ्यः कालिकस्योत्कालिकस्य वाऽऽलापकप्रदानं निरवद्यग्रन्थार्थोभयप्रदानं वा वाचना, गृहीतवाचनेनापि शिष्येण सति संशये पुनः प्रष्टव्यमिति पूर्वाधीतसूत्रादेश्शङ्कितादौ प्रश्नः प्रच्छना, स्वोन्नतिपरातिसन्धानोपहाससंघोषप्रहसनादिभिर्वर्जितः संशयोन्मूलनाय निश्चयदाढाय वा परं प्रत्य
नुयोग इति भावः । प्रच्छनया विशोधितस्य सूत्रादेविस्मरणं मा भूदिति तस्य द्रुतविलम्बिता15 दिदोषशून्यं घोषादिविशुद्धं गणनं परावर्तना, सूत्रवदर्थेऽपि विस्मरणसंभवेन तस्य मनसा
विचिन्तनमनुत्प्रेक्षा, इत्थमभ्यस्तश्रुतेन कृतं धर्मस्य श्रुतरूपस्य व्याख्यानं धर्मकथा । प्रज्ञातिशयप्रशस्ताध्यवसायप्रवचनस्थितिसंशयोच्छेदपरवादिशंकानिरासपरमसंवेगतपोवृद्ध्यतिचारविशुद्ध्यादयोऽस्य फलमिति ॥
अधुना ध्यानस्वरूपमभिधत्ते20 चेतसो योगनिरोधपूर्वकैकविषयस्थिरतापादनं ध्यान, योगनिरोधः केवलिनां ध्यानम् ॥
चेतस इति । ध्यानशब्दो विवक्षाभेदेन भावकर्तकरणसाधनः, तत्र ध्येयं प्रत्यव्यावृत्तस्य भावमात्रेणाभिधाने ध्यातिानमिति भावसाधनः, ध्यायतीति ध्यानं बाहुलकल्युट
विषयभेदात् वैया वृत्त्यस्य दो वाच्यः, क्रियाप्राधान्यपक्षेऽप्येवमेव वाच्यम् । यदा तु तादृशक्रियाणामाचार्यादि. सम्बन्धित्वेन क्रियायाः क्रियावतश्चाभेदः स्वीकियते तदाऽऽचार्यादय एव वैयावृत्त्यरूपा इति यथाश्रुतं आचार्यादिरूपतया वेयावृत्त्यविभजनं सम्यगेवेति भावः॥