________________
यावत्यम् ]
न्यायप्रकाशसमलहते विचक्षणेन सबहुमानं यथाशक्ति सेव्यमाना ये मत्यादयस्तेषु योऽभ्यासः ग्रहणधारणस्मरणादिर्ज्ञानविनय इति भावः । दर्शनविनयमाह-जिनेन्द्रोक्तेति, भगवद्भिपदिष्टाः पदार्थाः यथालक्षणा एव वर्तन्ते नान्यथावादिनो जिना इति निःसंशयता, तथाऽर्हत्प्रणीतस्य धर्मस्याचार्योपाध्यायस्थविरकुलगणसंघसाधुसमनोज्ञानां चानाशातना प्रशमसंवेगनिर्वेदानुकम्पाऽsस्तिक्यानि च दर्शनविनय इति भावः । चारित्रविनयमाह-श्रद्धयेति । सामायिकादिपञ्च- 5 विधचारित्रेषु श्रद्धा तत्पूर्वकमनुष्ठानं यथावत्तत्प्ररूपणश्च चारित्रविनय इत्यर्थः । उपचारविनयमाह-गुणाधिकेष्विति । उपचरणमुपचारः श्रद्धासहितो व्यवहारो नैकविधस्सः, प्रत्यक्षेध्वाचार्यादिषु अभ्युत्थानाभिगमनाञ्जलिकरणवन्दनानुगमनादिरात्मानुरूपः परोक्षेष्वपि कायवाङ्मनोभिरञ्जलिक्रियागुणसंकीर्तनानुस्मरणादिरूप उपचारविनयः । गुणैः सम्यग्ज्ञानदर्शनैर्देशविधसामाचारीसम्पद्भिश्चाधिका ये तेष्वित्यर्थः । शिष्टजनाचरिता विशिष्टक्रिया 10 सामाचारी स्वार्थिकष्यअन्तेन सामाचार्यशब्देन स्त्रीत्वविवक्षायां निष्पन्नोऽयं शब्दः । सा च प्रतिलेखनाप्रमार्जनभिक्षेोऽऽलोचनभोजनपात्रकधावनविचारस्थंडिलावश्यकभेदतः प्रतिदिनप्रभवा दशविधा भवतीति दिक् ॥
सम्प्रति वैयावृत्त्यमाह-..
प्रभुसिद्धान्तोदितसेवाद्यनुष्ठानप्रवृत्तिमत्वं वैयावृत्त्यम् । तचाचार्यो- 15 पाध्यायतपस्विशैक्षकग्लानकुलगणसंघसाधुसमनोज्ञभेदाद्दशविधम् । एतलक्षणान्यग्रे वक्ष्यन्ते ॥
प्रविति । कामचेष्टाया द्रव्यान्तराद्वा व्यावृत्तस्य प्रवचनप्रेरितक्रियाविशेषानुष्ठानपरस्य भावः तथापरिणामः कर्म वा वैयावृत्त्यम् । प्रवचनेषु कथितानि यानि सेवादिरूपाण्यनुष्ठानानि तत्र या प्रवृत्तिस्तथाविधपरिणामस्तद्वत्त्वमित्यर्थः । सेवा च क्षेत्रवसति- 20 प्रत्यवेक्षणभक्तपानधनपात्रभेषज़शरीरशुश्रूषणतदादेशगमनविद्यामंत्रप्रयोगादिविषया, .. समाध्याधानविचिकित्साभावप्रवचनवात्सल्यसनाथत्वादिफलवती च । वैयावृत्त्यस्यास्याऽऽचार्यादिविषयकत्वाद्दशविधत्वमिति ज्ञापनायाऽऽह-तच्चेति, वैयावृत्त्यमपीत्यर्थः, समनोज्ञभेदादिति, समनोज्ञानां भेदादिति विग्रहः, तथाचाऽऽचार्यादीनां भेदाद् वैयावृत्त्यमपि दशविधमित्यर्थः, वैयावृस्ययोग्यानां दशविधत्वाद्वैयावृत्त्यमपि दशविधमिति भावार्थः, इदञ्च क्रियायाः प्राधान्य- 25
१. आचार्यादिविषयकशास्त्रोदितक्रियाविशेषानुष्ठानप्रवृत्तपुरुषपरिणाम इति भावव्युत्पत्त्यर्थः, कर्मव्युत्पत्त्यर्थस्तु तादृशानुष्ठानप्रवृत्तपुरुषकर्तृकक्रियेत्यर्थः, भावव्युत्पत्तौ तादृशव्यापारपरिणतस्यैव वैपावृत्त्यमुक्तं भवति तदा