________________
: २२२ : तस्वन्यायविभाकरे
[ अष्टमकिरणे गृहीतेति । यथाऽऽधाकर्मणि गृहीते परित्याग एव कृते शुद्धिमासादयति नाऽन्यथा, सोऽयं परित्यागो विवेकात्मकं प्रायश्चित्तमित्यर्थः । अशठभावेन साधुना सवितुरुद्गतादिश्रमतो गृहीतमशनादिकं ततो भ्रमेऽपगते शठभावेनाऽशठभावेन वाऽर्धयोजनातिक्रमेण नीते
आनीते वाऽशनादिके तत्र विवेक एव प्रायश्चित्तमिति भावः, अत्र शठ इन्द्रियमायावि5 कथाक्रीडादिभिः कर्म कुर्वन् , ग्लानभयादिकारणतस्त्वशठः ।।
व्युत्सर्गमभिधत्ते
गमनागमनादिषु विशिष्टचित्तैकाग्र्यपूर्वकं योगव्यापारपरित्यागो व्युत्सर्गः॥
गमनागमनादिष्विति । विशिष्टचित्तैकाप्रतापूर्वकं योगव्यापारनिरोधः कायोत्सर्गा10 परनामा यः प्रायश्चित्तविशेषः प्राणातिपातादिसावद्यबहुले गमनागमनदुस्स्वप्मनौसन्तरणादिविषये भवति स व्युत्सर्ग इति भावः ॥
तपो निरूपयतिछेदग्रन्थजीतकल्पान्यतरानुसारेण गुर्वनुशिष्टानुष्ठानविशेषस्तपः ॥
छेदग्रन्थेति । सचित्तपृथिवीकायादिसङ्घट्टने समापतिते छेदग्रन्थानुसारेण जीतक15 ल्पानुसारेण वा षण्मासावसानो निर्विकृतिकादिको यस्तपोविशेषो दीयते तत्तपःप्रायश्चित्तमित्यर्थः ॥
छेदमाहतपसा दुर्भेद्यस्य दिवसमासादिक्रमेण श्रमणपर्यायापनयनं छेदः॥
तपसेति । विशोधयितुं तपसा मुनेरशक्यस्य यन्महाव्रतारोपणकालादारभ्याहोरात्र20 पश्चकादिना क्रमेण श्रामण्यपर्यायछेदनं क्रियते स छेदः, तपोदुर्दमश्च षण्मासक्षपकोऽन्यो
१. रात्रिंदिवपञ्चकादारभ्य रात्रिंदिवपञ्चकादिवृद्ध्या तावन्नेयं यावत् षण्मासम् । उत्सारकं शास्त्रं छेदप्रन्थः स च षड्विधः, निशीथं महानिशीथं दशाश्रुतस्कन्धो बृहत्कल्पो व्यवहारः पञ्चकल्पश्चेति । जीतमाचरितं तस्य कल्पो वर्णना जीतकल्पः तत्प्रतिपादकः जिनभद्रगणिक्षमाश्रमणरचितोऽष्टपञ्चाशद्गाथामयः छेदश्रुतविशेषः ॥ २. व्रतपर्यायच्छेदनमात्रं छेदः सर्वपर्यायछेदस्तु न भवति, तथात्वे च मूलमेव स्यात् । यथा शेषाङ्गरक्षार्थ व्याधिदूषितमङ्गं छिद्यते एवं व्रतशेषपर्यायरक्षार्थ अतिचारानुमानेन दूषितः पर्याय एव छिद्यत इति भावः ॥ ..