SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ तपः ] म्यायप्रकाशलमलङ्कृते : २२३ : वा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति किमनेन तपसा ममेत्यभिसन्धिमान् तपः करणासमर्थो वा ग्लानासह बालवृद्धादिस्तथाविधतपः श्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वेति ध्येयम् ॥ मूलमाह प्रारम्भतः पुनर्महाव्रतारोपणं मूलम् ॥ प्रारम्भत इति । यस्मिन् समापतिते निरवशेषपर्यायोच्छेदमाधाय पुनर्महाव्रतारोपणं क्रियते तादृशं प्रायश्चित्तं मूलमित्यर्थः । आकुट्टा पश्चेन्द्रियवचे विहिते दर्पेण मैथुने सेवि मृषावादादत्तादानपरिग्रहेषु प्रतिसेवितेषूत्कृष्टेषु अनाकुट्टया पुनः पुनस्सेवितेषु वा मूलाभिधानमेतत्प्रायश्चित्तं भवतीति भावः ॥ अनवस्थाप्यमाचष्टे - अकृततपोविशेषस्य दुष्टतरस्य कियत्कालं व्रतानारोपणमनवस्था अथ पाराचितमाह - राजधादितीर्थकरायाशातनाकरणेन यावद् द्वादशवर्षमतिचारपारगमनतो राजप्रतिबोधादिप्रवचनप्रभावनया पुनः प्रव्राजनं पाराश्चितम् ॥ 5 प्यम् ॥ अकृतेति । येन पुनः प्रतिसेवितेनोत्थापनाया अप्ययोग्यो न स्थाध्यते व्रतेषु कश्चित्कालं, यावन्नाद्यापि प्रतिविशिष्टं तपश्चीर्णं भवति पश्चाच्च चीर्णतपास्तदोषोपरतौ व्रतेषु स्थाप्यते तदनवस्थाप्यं प्रायश्चित्तमित्यर्थः । मुष्टियष्टिप्रभृतिभिस्स्वस्य परस्य स्वपरपक्षगतस्य 15 वा घोरपरिणामतः प्रहरणेनातिसंक्लिष्टचित्ताध्यवसायो न स्थाप्यते प्रतेषु यावदुचितं तपो न कृतं स्यात्, उचितश्च तपः कर्म उत्थाननिषदनाद्यशक्तिपर्यन्तं स हि यदोत्थानाद्यपि कर्तुमशक्तस्तदाऽन्यान् प्रार्थयते, आर्याः ! उत्थातुमिच्छामीत्यादि, ते तु तदा तेन सह संभाषण - मकुर्वाणास्तत्कृत्यं कुर्वन्ति, एतावति तपसि कृते तस्योपस्थापना क्रियत इति बोध्यम् ॥ १. एवं मूलोत्तरगुणभङ्गसम्पर्के वान्तदर्शनचारित्रे त्यक्तदशविधसामाचारीरूपे तपोगर्वितादिषु च मूलं प्रायश्चित्तं बोध्यम् । नवमदशमप्रायश्चित्तापत्तावपि भिक्षोर्मूलमेव प्रायश्चित्तं, अकृतकरणस्याचार्यस्य कृतकरणस्योपाध्यायस्य त्वनवस्थाप्यं प्रायश्चित्तमिति ॥ 10 20
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy