SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ तप: ] न्यायप्रकाशसमलङ्कृते प्रवृत्त्या निरतिचारत्वेऽपि चेष्टासूक्ष्मप्रमादनिमित्तसूक्ष्माश्रवसम्भवेन तच्छुद्ध्यर्थमालोचनाss वश्यकीति विज्ञेया ॥ प्रतिक्रमणमाह : २२१ : अतिचारात्प्रतिनिवर्त्तनं प्रतिक्रमणम् ॥ अतिचारादिति । यन्मिथ्यादुष्कृतिमात्रेणैव शुद्धिमासादयति न च गुरुसमक्षमालोच्यते 5 तदहं प्रायश्चित्तं प्रतिक्रमणम् । यथा सहसाऽनुपयुक्तेन यदि श्लेष्मादि प्रक्षिप्यते न च हिंसादिका दोष आपद्यन्ते तर्ह्यलोचनामन्तरेणापि मिध्यादुष्कृतप्रदानेन शुद्ध्यति, तत्प्रतिक्रमणमिति भावः । समितिप्रमुखाणां सहसाऽनाभोगतो वा कथमपि प्रमादे सति अन्यथाकरणे प्रतिक्रमणं मिथ्यादुष्कृतप्रदानलक्षणं प्रायश्चित्तं क्रियत इति तात्पर्यम् ॥ मिश्रमाचष्टे 10 उभयात्मकं मिश्रम् | उभयात्मकमिति । आलोचनविशिष्ट प्रतिक्रमणमित्यर्थः । यस्मिन् पुनः प्रतिसेविते यदि गुरुसमक्षमालोचयति आलोच्य गुरुसन्दिष्टः प्रतिक्रामति- पश्चाच मिध्यादुष्कृतमिति ब्रूते तदा शुद्ध्यति तदालोचनप्रतिक्रमणलक्षणोभयार्हत्वान्मिश्रं नानाप्रकारान् शब्दादीनिन्द्रियविषयीभूतान् विषयाननुभूय कस्यचिदेवं संशयस्स्याद्यथा शब्दादिषु विषयेषु रागद्वेषौ 15 गतोऽहं नवेति ततस्तस्मिन् संशयविषये पूर्वं गुरूणां पुरत आलोचनं तदनन्तरं गुरुसमा - देशेन मिथ्यादुष्कृतदानमित्येवंरूपं प्रायश्चित्तं भावयतो मिश्रं प्रतिपद्यते, यदि हि निश्चितं भवति यथाऽमुकेषु शब्दादिषु विषयेषु रागं द्वेषं वा गत इति, तत्र तपोऽर्ह प्रायश्चित्तं, अथैवं निश्वयो न गतो रागं द्वेषं वेति तत्र स शुद्ध एव न प्रायश्चित्तविषय इति भावः ॥ विवेकं व्याख्याति - गृहीतवस्तुनोऽवगतदोषत्वे परित्यजनं विवेकः ॥ १. सहसाकारतो वाsनाभोगतो वा यदि मनसा दुश्चिन्तितं वचसा दुर्भाषितं कायेन दुश्चेष्टितं यदीर्यायां कथां कथयन् व्रजेत् भाषायामपि यदि गृहस्थभाषया ढड्ढरस्वरेण वा भाषेत, एषणायां भक्तपानगवेषणवेलायामनुपयुक्तो भाण्डोपकरणस्यादाने निक्षेपे वाऽप्रमार्जयिताऽप्रत्युपेक्षिते स्थण्डिले उच्चारादीनां परिष्ठापयिता च न च हिंसादिदोषमापन्नः, तथा यदा कन्दर्पो हासो वा स्त्रीभक्तचौर जनपदकथाकरणं वा क्रोधमानमायालोभेषु गमनं विषयेषु वा शब्दादिष्वनुषङ्गो ज्ञानदर्शनचारित्रप्रतिरूपविनयाकरणे च तदा प्रतिक्रमणं प्रायश्चित्तमिति भावः ॥ 20
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy