________________
: २२० :
तत्त्वन्यायविभाकरे
[ अष्टमकिरणे
मणमिश्रविवेकव्युत्सर्गतपश्छेदमूलानवस्थाप्यपाराञ्चित भेदाद्दशविधम् ॥
अतिचारेति । प्रायस्साधुलोकः, यस्मिन् कर्मणि तस्य चित्तं तत्प्रायश्चित्तं प्रायो वाऽपराधः, तस्य चित्तं शुद्धिः यस्मादनुष्ठितात्तत्प्रायश्चित्तमपराध विशुद्धिफलकानुष्ठानमित्यर्थः, तदेव तस्य स्वरूपमित्याशयेनो क्तमतिचारेति, अतिचारविशुद्धिजनकत्वे सत्यनुष्ठानत्वं 5 लक्षणं, प्रमादजन्यो मूलोत्तरगुणविषयको हि दोषोऽतिचा रस्सोऽयमल्पोऽपि चित्तमालिन्यं विदधात्येव, अतस्तच्छुद्ध्यै प्रायश्चित्तमभिमतमिति भावः । यद्यप्यतिचारस्य कस्यचिद्भवति निवृत्तिः प्रकाशनमात्रादपि यथा श्रुतोपदिष्टव्यापारानुयायिनो मोक्षार्थं यतमानस्यावश्यकरणीयेष्वत्यन्तोपयुक्तस्य व्यस्तस्थूलातिचारस्य सूक्ष्मास्रवप्रमादक्रियाणाम् । तत्रानुष्ठानत्वाभावादव्याप्तिप्रसङ्गस्तथापि मानसानुष्ठानरूपत्वात्तस्य न दोषः, एवमेव पश्चात्तापादावपि 10 विज्ञेयम्, तद्विभागमाह तच्चेति । तत्त्वार्थे तु मूलानवस्थाप्यपाराचिंतानां स्थाने परिहारो - पस्थापने पठित्वा नवविधत्वं प्रायश्चित्तस्य दृश्यते ॥
I
अथाssलोचनमाचष्टे -
गुर्वभिमुखं समर्यादं स्वापराधप्रकटनमालोचनम् ॥
गुर्वभिमुखमिति । मर्यादया मायामदादिदोषरहितेन कार्यमकार्यश्च सत्यतया भणता 15 बालेनेव स्वापराधस्य स्वेनाssसेवितक्रमेणाऽऽलोचनार्हाय गुरवे प्रकटनमालोचनाप्रायश्चित्तमित्यर्थः यैः । गुरुणाऽनुज्ञातस्स्वयोग्यभिक्षावस्त्रपात्रशय्यासंस्तारकपादप्रोञ्छनादीनि आचार्योपाध्यायस्थविरबालग्लानशैक्षकक्षपकासमर्थप्रायोग्यवस्त्रपात्रभक्तपानौषधादीनि वा गृहीत्वा, उच्चारभूमेर्विहाराद्वा, चैत्यवन्दननिमित्तं पूर्वगृहीतपीठफलकादिप्रत्यर्पणनिमित्तं, वहुश्रुतापूर्वसंविग्नवन्दनप्रत्ययं, संशयव्यवच्छेदाय, श्राद्धस्वज्ञात्यवसन्नविहाराणां श्रद्धावृद्ध्यर्थं, साधर्मि20 काणां संयमोत्साहनिमित्तं हस्तशतात् परं दूरमासन्नं वा गत्वा च समागतो यथाविधि गुरुसमक्षमालोचयेदिति भावः । आलोचना चेयमावश्यकेषु यातायातेषु सूपयुक्तस्यादुष्टभावत्वादतिचारविधुरस्याप्रमत्तस्य छद्मस्थस्य यतेर्द्रष्टव्या, सातिचारस्य त्वन्यप्रायश्चित्तसम्भवात् । केवलज्ञानिनश्च कृतकृत्यत्वेनालोचनाया अयोगात् । छद्मस्थस्याप्रमत्तस्य तु यथाशास्त्रं
१. विहायायोग्यवस्थां सर्वासु सरागवीतरागाद्यवस्थासु भवस्थजीवानां कर्मबन्धवैचित्र्यं सूरय आहु: केचिदायुर्वर्जसप्तविधकर्मोपार्जकाः केचिन्मोढायुर्वर्जषद्विधकर्मार्जकाः केचिच्च द्विसमयस्थितिकैकविधकर्मबन्धका इति, तथाच विराधनायास्सम्भवेन भिक्षाटनादिविहितानुष्ठानमपि आलोचनाप्रतिक्रमणादिप्रायश्चित्तसमन्वितं भवतीति भावः ॥ २. तत्र परिहारशब्देन मूलप्रायश्चित्तमुपलक्षितम् उपस्थापनपदेन चानवस्थाप्यपाराञ्चिके सङ्गृहीते, परिहारश्च मासादिकः षण्मासान्त इति ॥