SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तम् ] अथ संलीनतामाचष्टे - न्यायप्रकाशसमलङ्कृते : २१९ : इन्द्रिययोगकषायादीन्नियम्य विविक्तस्थानासेवनं संलीनता, सा चतुर्विधा इन्द्रियकषाययोगविविक्तचर्या भेदात् ॥ इन्द्रियेति । विविक्तं - विजनं - बाधाविवर्जितं स्थानं प्रतिश्रयशय्या फलकासनपीठादिकं तस्याऽऽसेवनं । शरीरोपघातकरैः स्थूलसूक्ष्मजन्तुसहितैः स्त्रीपशुपण्डकादियुतैश्च प्रतिश्रयादि - 5 भिसम्यक्त्वादीनां बाधा स्यादतस्तद्रहितस्थानाssसेवनमित्यर्थः । तदप्यासेवनं सस्वान्तानीन्द्रियाणि संयम्य योगान्निष्फलेभ्यः क्रोधादिकषायकदम्बकं चोदयनिरोधप्राप्तोदयवैफल्यकरणाभ्याञ्च विज्ञेयमिति भावः । सा च संलीनता ज्ञानदर्शनचारित्रसंस्थापिका इन्द्रियकषाययोगनियमनपूर्वकत्वाद्विविक्तस्थानसम्बन्धित्वाच्च चतुर्विधा भवतीत्याशयेनाह सेति ॥ ता एव क्रमतो लक्षयति प्राप्तेन्द्रियविषयेष्वरक्तद्विष्टताभावः इन्द्रियसंलीनता । अनुदितक्रोधस्योदयनिरोधः प्राप्तोदयस्य नैष्फल्यकरणं कषायसंलीनता । कुशलाकुशलयोगानां प्रवृत्तिनिवृत्ती योगसंलीनता । शून्यागारादौ निर्बाधे रुयादिवर्जिते स्थाने स्थितिर्विविक्तचर्यासंलीनता ॥ प्राप्तेन्द्रियेति । विशदं मूलं व्याख्यातप्रायञ्च । षडिधादप्यस्माद्वाह्यतपसो बाह्याभ्य- 15 न्तरोपधिषु निर्ममत्वं प्रत्यहमल्पाहारोपयोगात्प्रणीताहारवर्जनाच्च शरीरलाघवं, उन्मादानुद्रेकादिन्द्रियजयः, चर्याजनितजन्तूपरोधाभावात्संयमरक्षणं निस्सङ्गतादिगुणयोगादनशनादितपोऽनुतिष्ठतश्शुभध्यानव्यवस्थितस्य कर्मनिर्जरणचावश्यं जायत इति बोध्यम् ॥ अथातिशयेन कर्मनिर्दहनक्षमं क्रमिकं स्वप्रत्यक्षभूतमन्तःकरणव्यापारप्रधानं प्रधानतो बहिर्द्रव्यानपेक्षमितरतीर्थिकानभ्यस्त मनशनादिभ्योऽन्तरङ्गभूतमान्तरं तपो विभजते – 10 प्रायश्चित्तविनय वैयावृत्त्यस्वाध्याय ध्यानोत्सर्गाष्षाभ्यन्तरतपांसि || प्रायश्चित्तेति । आभ्यन्तरतपांसीति । मोक्षप्राप्तावन्तरङ्गाणि आभ्यन्तरकर्मतापकानि आभ्यन्तरैरेवान्तर्मुखैर्भगवद्भिर्ज्ञायमानानीमानि तपांसीति भावः ॥ 20 अथ प्रत्येकं परिज्ञापयितुं प्रायश्चित्तं निरूपयति अतिचारविशुद्धिजनकानुष्ठानं प्रायश्चित्तम् । तच्चाsssलोचनप्रतिक- 25
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy