________________
रसत्यागः ]
न्यायप्रकाशसमलते तेन नृपशत्रुतस्करादिकृताहारनिरोधादेव्यवच्छेदः, उपहतभावस्य हि पुंसोऽनशनादिकं न संयमरक्षणाय न वा कर्मनिर्जरायै समर्थम् ॥
अथ वृत्तिसंक्षेपमाहनानाविधाभिग्रहधारणेन भिक्षावृत्तेः प्रतिरोधनं वृत्तिसंक्षेपः ॥
नानाविधेति । अभिग्रहो नियमस्स चागमविहितः, अनेकविधा येऽभिग्रहास्तेषां 5 धारणेनावलम्बनेनेत्यर्थः, नियमाश्च भिक्षाविषयाः उत्क्षिप्तनिक्षिप्तान्तप्रान्तचर्यादिरूपा द्रव्यक्षेत्रकालभावप्रविभक्ताः । यथा पटलकादिकं कडुच्छकादिनोपकरणेन दानयोग्यतया दायकेनोक्षिप्तं यदि लप्स्ये तदा ग्रहीष्यामीत्यादिरूपाः, तानवलम्ब्यापरभिक्षाया यत्प्रतिरोधनं स वृत्तिसंक्षेपः, दत्तीनां नियमेन एकां दत्तिमद्य ग्रहीष्यामि द्वे वा तिस्रो वेत्यादिरूपेणेतरासां दत्तीनां प्रतिरोधोऽपि वृत्तिसंक्षेपस्तत्र दत्तिः पात्रकादौ पटलकादीनां यदेकमुखेन प्रक्षेपः 10 सा । हस्तेन कडुच्छकेनोदङ्किकया वा यदुत्क्षिप्य ददाति सा भिक्षेति विशेषः ।
रसत्यागस्वरूपं वक्ति-..
रसवत्पदार्थेषु द्वित्र्यादीनां त्यागपुरस्सरं विरसरूक्षाचाहारग्रहणं रसत्यागः॥
रसवदिति । गुणविशेषवाचिनो रसत्यागपदघटितरसशब्दस्यात्र गुणिपरत्वमेव, 15 रसवत्पदार्थपरित्यागस्यैवाभिमतत्वात् , शुक्लः पट इत्यादिवदतो रसत्याग इति लक्ष्यनिर्देशो द्रव्यत्यागपुरस्कारेणैव रसपरित्याग इति सूचयितुं रसवत्पदार्थेष्वित्युक्तं, न सर्वेषामेव रसवतां परित्यागो रसत्यागोऽपि तु द्विव्यादीनामपीत्याशयेनाह द्विव्यादीना मिति, अनशनेऽपि द्विव्यादिपदार्थपरित्यागोऽस्त्येव, तस्य सर्वपदार्थपरित्यागरूपत्वादित्याशंकायामाह विरसरूक्षादीति । न च रूपरसगन्धस्पर्शवन्तः पुद्गला इति नियमेन सर्वेषामेव 20 पदार्थानां रसववाद्विरसेति कथमिति वाच्यम् , प्रकृष्टरसशून्यताया एव विवक्षितत्वादिति भावः । विरसं विकृतिभिरसंस्पृष्टं, रूक्षं प्रकृष्टरसशून्यम् । चित्तविकारहेतुभूता हि पदार्था मद्यमांसमधुनवनीतात्मकाः क्षीरदधिघृततैलगुडावगाह्याश्च विकृतिरूपाः । मद्यं हि गुडपिष्टद्राक्षाखर्जूरादिसम्भवं गणनातीतजीवोत्पत्तिस्थानं जीवस्यास्वातंत्र्यं विधत्ते, तेन चाक्रान्तः कृत्याकृत्यविवेकभ्रष्टो विनष्टस्मृतिसंस्कारो गर्हितमाचरत्येव । मांसं प्राणिशरीरावयवरूपमनन्त-25 जन्तुप्रसवनिदानं प्राणव्यपरोपणमन्तरा, दुष्प्रापं, प्राणातिपातश्चातिदुःखप्रदत्वेन कृतकारितानु
२८