________________
: २१६ : तत्वन्यायविमाकरे
[ अष्टमकिरणे .. इत्वरमिति । इत्वरं परिमितकालं यथा नमस्कारसहितादि षण्मासपर्यन्तं महावीरस्वामितीर्थे, संवत्सरपर्यन्तं श्रीनाभेयतीर्थे, यावदष्टौ मासान् द्वाविंशतिमध्यमतीर्थकरतीर्थेषु । पादपोपगमनेङ्गिनीभक्तप्रत्याख्यानभेदतो यावज्जीवमनशनं त्रिविधम् । अत्राथमपि निर्व्याघातसव्याघातभेदेन द्विविधम् । प्रव्रज्याशिक्षापदादिक्रमतो जराजर्जरितशरीरस्य चतुर्विधा5 हारप्रत्याख्यानपूर्वकं जन्तुशून्यस्थण्डिलमाश्रित्य निपत्यैकस्मिन्नेव पार्श्वे प्रशस्तध्यानं भृत्वा परिस्पन्दशून्यतया जीवोत्क्रमणं यावद्वर्त्तनं निर्व्याघातम् । आयुस्सद्भावेऽपि समुपजातव्याधिनोत्पन्नमहावेदनेन यदुपक्रान्तिः क्रियते तत्सव्याघातम् । श्रुतविहितक्रियाविशेषविशिष्टं मरणमिङ्गिनी, इयश्च यः प्रव्रज्यादिप्रतिपत्तिक्रमेणैवाऽऽयुषः परिहाणिमवबुध्याऽऽत्तनिजोप
करणः स्थावरजङ्गमप्राणिविवर्जितस्थंडिलशायी एकाकीकृतचतुर्विधप्रत्याख्यानश्छायाया 10 उष्णमुष्णाच्छायां संक्रामन् सचेष्टः सम्यग्ज्ञानपरायणः प्राणाञ्जहाति तस्य बोध्यम् ।
गच्छान्तर्वर्ती सन् कदाचित्रिविधस्य कदाचिच्चतुर्विधस्य पर्यन्ते च सर्वथाऽऽहारप्रत्याख्यानं कुर्वन् समाश्रितमृदुसंस्तारक उत्सृष्टशरीरोपकरणममत्वस्स्वयमेवोद्राहितनमस्कारो निकटवर्तिसाधुदत्तनमस्कारो वोद्वर्तनपरिवर्तनादिकं कुर्वाणस्समाधिना यत्कालं करोति तद्भक्तप्रत्याख्यानम् , एवमेवाऽनशनं विविच्य शास्त्रोक्तं विज्ञेयम् , तथा चेत्वरयाव15 जीवान्यतरस्वरूपाहारपरित्यागोऽनशनमिति भावः।
उनोदरिकामाचष्टेस्वाहारपरिमाणादल्पाहारपरिग्रहणमूनोदरिका ॥
स्वाहारेति । यस्य पुरुषस्य यावदाहारपरिमाणं ततोऽल्पस्याऽऽहारस्य ग्रहणं, उत्कृष्टावकृष्टपरिमाणको वर्जयित्वा मध्यमेन कवलेन पुंसो द्वात्रिंशत्कवलके स्त्रियोऽष्टाविंशतिकवल20 प्रमाणे आहारेऽष्टसंख्याकेन, द्वादशसंख्याकेन षोडशकेन चतुर्विंशतिकेन, एकेनापि न्यूनेन
वा वर्तनमूनोदरिकेति भावः । अत्राऽनशनादौ च सम्यक्त्वं विशेषणीयं तच्च यथागमात्मकं,
१. पादपोपगमनमविचारं इङ्गिनीभक्तप्रत्याख्याने सविचारे, चेष्टात्मकेन कायसम्बन्धिना वर्तमानत्वात्सविचार, तद्विपरीतमविचारं, इङ्गिनीभक्तप्रत्याख्याने सपरिकर्म, स्थाननिषदनत्वग्वर्तनादिना विश्रामणादिना च वर्तमानत्वात् , एकत्र स्वयमन्येन वा कृतस्य, अन्यत्र तु स्वयं विहितस्योद्वर्तनादिचेष्टात्मक
परिकर्मणोऽनुज्ञानात् । अपरिकर्म पादपोपगमनं निष्प्रतिकर्मताया एव तत्राभिधानात् ॥ २. अयं भावः 25 एककवलादारभ्य यावदष्टौ कवला जघन्यमध्यमोत्कृष्टविशिष्टा अल्पाहारोनोदरिका:, नवभ्यः कवलेभ्य आरभ्य
यावहादशकवलास्तादृशा अपाधानादारकाः, त्रयोदशभ्य आरभ्य यावत् षोडशकवलास्तादृशा त्रिभागोनोद. रिकाः, सप्तदशभ्यो यावच्चतुर्विंशतिकवलाः प्राप्तोनोदरिकाः, पञ्चविंशतेरारभ्य यावदेकत्रिंशत्कवलाः किञ्चिदूनोदरिका उच्यन्ते, एवं स्त्रीणामपि पुरुषानुसारेण भाव्यमिति ॥