________________
অবস্থান ।
न्यायप्रकाशसमलइये। ननु तपसा निर्जरा भवतीत्युक्तं तत्र किन्तप इत्यत्राहशरीरवृत्तिरसादिधातुकर्मान्यतरसन्तपनं तपः॥
शरीरवृत्तीति । तप्यन्तेऽनेन बाह्याभ्यन्तरभेदभिन्नानशनप्रायश्चित्तादिना यानि शरीरनिष्ठानि रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि मिथ्यादर्शनाद्यर्जितकर्माणि चेति तपोऽनशनादि, तथा च शरीरनिष्ठरसादिकर्मान्यतरसन्तापप्रयोजकप्रवृत्तित्वं लक्षणम् । शरीरवृत्ति- 5 रसादीनि कर्माणि च सन्तप्यन्ते नीरसीक्रियन्तेऽनेनेति व्युत्पत्तेः, विपाकस्य नीरसीकरणप्रयोजकत्वेऽपि प्रवृत्तिरूपत्वाभावान्नातिप्रसक्तिः, साक्षात्कर्मसन्तापकस्य धातुक्षयपूर्वकं संगत्यागशरीरलाघवेन्द्रियविजयसंयमरक्षणादिद्वारा कर्मसन्तापकस्य च संग्रहायान्यतरेत्युक्तम् । न चालब्धवृत्तीनां कर्मणां तपसा क्षयाभ्युपगमे तेषां निष्फलत्वं स्यात् , अनुपभुक्तानां क्षया- . नुपपत्तिश्च, उपपत्तौ वोपभुज्यमानानामपि क्षयापातादिति वाच्यम् , कारणस्य नियमेन कार्य- 10 जनकत्वानभ्युपगमात् , अन्यथा कुशूलस्थादपि बीजादडरोत्पत्तिप्रसङ्गात् । मण्यादिसमवहितवतिना दाहापाताच किन्तु सहकारिवैकल्यशक्तिप्रतिबन्धादिना कारणस्य कार्याजनकत्वेन कर्मणामपि द्रव्यक्षेत्रादिसहकारिविरहात् प्रबलकर्मान्तरेण शक्तिप्रतिबन्धाद्वा वृत्त्यलाभः । तादृशानाञ्च कर्मणां तपसा क्षय इति न कोऽपि दोषः । भोगेन कर्मणः क्षय इति तूत्सर्गः, स च तपसस्तत्त्वज्ञानाद्वा क्वचित् कथञ्चित् क्षयाभ्युपगमेनापोद्यत इति नासम्भ- 15 वो लक्षणस्येति दिक् ॥
तत्र तपसो बाह्याभ्यन्तररूपेण द्वैविध्यस्य प्रदर्शितत्वादधुना बाह्यं तद्विभजते
तत्र बाह्यतपांसि अनशनोनोदरिकावृत्तिसंक्षेपरसत्यागकायक्लेशसंलीनतारूपेण षड्विधानि ॥ .
तत्रेति । अनशनादिरूपे तपसि बाह्यत्वं अन्नादिबाह्यद्रव्यनिमित्तकत्वात् परप्रत्यक्ष- 20 विषयत्वात् प्रायो बाह्यशरीरतापकत्वात् तीर्थकगृहस्थानुष्ठेयत्वाञ्चेति विज्ञेयम् ॥
सम्प्रत्यनशनं लक्षयति- -- इत्वरं यावज्जीवं वाऽऽहारपरित्यागोऽनशनम् ॥
वस्त्रादेर्भावतः कर्मणामेवं द्विविधाऽपि वा । ननु निर्जरामोक्षयोः कः प्रतिविशेषः ? उच्यते देशतः कर्मक्षयो । निर्जरा, सर्वतस्तु मोक्ष इति ॥ २. यथा महाजलाश्रयस्य नवीनजलागमनमार्गे निरुद्ध विद्यमाने जले अरघट्टादिना निष्कासिते रविकिरणादिना क्रमेण शोषणं भवेत् तथा प्राणिवधादिपापकर्मणां निरोधे संयतस्यापि द्वादशविधेन तपसा भवकोटिसंचितं कर्म निजीर्यत इति भावः ॥