________________
: २१४ :
तत्त्वन्यायविभाकरे
[ अष्टमकिरण
मिथ्यादृष्टीनामैहिक सुखाय कृतप्रयत्नानां तपस्यादिना कर्मणां विध्वंसोकामा ॥
सेयमिति । सा तपोविपाकान्यतरजन्या, इयं निर्जरा, कामनासहितत्वात्सकामा, तद्विशेषरहितत्वाच्चाकामेति द्विविधेति भावः । तत्र कामोऽभिलाषः, तपः परीषहजयादिना 5 कर्म क्षपयामीत्येवं रूपो बुद्धिविशेष:, तेन सहिता सकामा, साक्षात्परम्परया वा तपः परीषहादिजन्यो विपाको मोक्षसाधनमिति भावः तत्र देवेषु तावदिन्द्रसामानिकादिस्थानान्यवाप्नोति, मनुष्येषु च चक्रवर्त्तिबलदेव महामण्डलिकादिपदानि लब्ध्वा ततः सुखपरम्परया मोक्षमवाप्स्यति, तपः परीषहकृतो निखिलकर्मक्षयस्वरूपो विपाकस्तु साक्षान्मोक्षायैव भवतीति । नास्ति कामो बुद्धिविशेषो जनकतया यस्यामित्यकामा, 10 नरकतिर्यङ्मानुषदेवेषु ज्ञानावरणादिकर्मणः फलभूताद्विपच्यमानादाच्छादनादिरूपाया कर्मनिर्जरा साsकामा, न हि नारकादिभिस्तपः परीषहो वाऽभिलषितस्तदर्थम् । तत्र सकामामाचष्टे सम्यग्दृष्टीति । सम्यग्दर्शनमात्रभाकू, शक्त्यनुगुणं द्वादशविधधर्मस्यैकदेशेनाप्यनुष्ठाता सम्यग्दर्शनभाक्च देशविरतः । ससम्यक्त्वः साधुधर्मानुष्ठायी यावज्जीवं सर्वेभ्यः प्राणातिपातादिभ्यो विरतस्सर्वविरतः, तेषामित्यर्थः । साभिलाषं बुद्धिविशेषपूर्वकमि15 त्यर्थः । कर्मक्षयाय कृतप्रयत्नानामिति, आनुषङ्गिकदेवत्वादौ निःस्पृहतया मुख्याय कर्मक्षयाय प्रवर्त्तमानानामिति भावः । सम्यग्दृष्ट्यादीनां निर्जरा न समा, अपि तु यथोत्तरमसंगुणाइति भाव्यम् || अकामामाख्याति, मिध्यादृष्टीनामिति, सम्यग्दृष्टिविरहितानामित्यर्थः, ऐहिक सुखाय कृतप्रयत्नानामिति, ये केचन मिध्यादृष्टिविशेषास्स्वर्गाद्यर्थं वयं तपस्याम इत्यभिसन्धिमन्तोऽपि प्रवर्त्तन्ते तेषामपीति भावः । तादृशाभिसन्धेरज्ञानरूपत्वादका - 20 मत्वमेव, तपस्यादिनेति, तपस्त्वादिरूपेण तेषामभिमतेनेत्यर्थः ॥
25
निर्जरेयं कर्मपुद्गलद्रव्यध्वंसरूपत्वा द्रव्यनिर्जरेत्युच्यते, तन्निमित्तात्माध्यवसायो भावनिर्जरेत्युच्यत इत्याह
आत्मप्रदेशेभ्यः कर्मणां निर्जरणं द्रव्यनिर्जरा, निर्जरानिमित्तशुभाध्यवसायो भावनिर्जरा ॥
आत्मप्रदेशेभ्य इति । विश्लेषावधौ पञ्चमी, निर्जरणं पृथक्करणम्, न तु विध्वंसः, पञ्चम्यनुपपत्तेः । आत्मप्रदेशेषु कर्मसम्बन्धाभाव इति भावः ॥
L
१. निर्जरा त्वेनैकविधापि साऽष्टविधकर्मापेक्षयाऽष्टविधाऽपि । द्वादशविधतपोजनितत्वेन च द्वादशविधाsपि, अकामक्षुत्पिपासा शीतातपदंशमशक सहनब्रह्मचर्य धारणाद्यनेकविध कारणजनितत्वेनानेकविधापि, दन्यतो