________________
न्यायप्रकाशसमलङ्कृते
विपाकजाविपाकजभेदेन तस्या द्वैविध्य मादर्शयति
निर्जरा ]
: २१३ :
विध्वंसोऽयं विपाकोदयेन प्रदेशोदयेन च द्विधा भवति । विपाकोदयश्च मिथ्यात्वादिहेतुककर्मपुद्गलानां जघन्योत्कृष्टस्थितितीव्रमन्दानुभावानां स्वभावेन करणविशेषेण वोदयावलिकाप्रविष्टानां रसोदयपूर्वकानुभवनम् । अनुदयप्राप्तकर्मप्रकृतिदलिकमुदयप्राप्तसमानकालीन सजातीय- 5 प्रकृतौ संक्रमय्यानुभवनं प्रदेशानुभवः ॥
1
विध्वंसोऽयमिति । विपाकोदयेनेति, विपचनं उदद्यावलिकाप्रवेशो विपाकः, अप्रशस्तपरिणामानां कर्मणां तीव्रतया शुभपरिणामाना मन्दतया व्यत्ययेन वा नानाप्रकारः पाको वा विपाकः, स एवोदयस्तेनेत्यर्थः । प्रदेशोदयेन चेति, संक्रमणेनेत्यर्थः । मिथ्यात्वादीति, मिथ्यादर्शनाविरतिकषाययोगैर्बद्धानां ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनाम - 10 गोत्रान्तरायात्मकानां कर्मपुद्गलानामित्यर्थः । जघन्येति, जघन्यस्थितिकानामुत्कृष्टस्थितिकानां मन्दानुभावानां तीव्रानुभावानामित्यर्थः । अध्यवसायादिवैचित्र्यत इयं विचित्रताऽवसेया । स्वभावेनेत्यादिनोदयावलिकाप्रवेशो हि शुद्धप्रायोगिकभेदेन द्विविधः, अबाधाकालक्षयेणोदयावलिकाप्रवेशश्शुद्धः, उदीरणाकरणेनोदयावलिकाप्रवेशः प्रायोगिक उच्यत इति सूचितम् । स्वभावेन, अबाधाकालक्षयेण करणविशेषेणोदीरणाकरणेन । रसोदयपूर्वकमनुभवनमिति, 15 रससहितस्यानुसमयमिच्छ्याऽनिच्छया वाऽनुभूतिरिति भावः । प्रदेशोदय स्वरूपमाहानुदयेति । यत्कर्माप्राप्तविपाककालमौ पक्रमिक क्रियाविशेषसामर्थ्यादनुदीर्णं बलादुदयप्राप्तायां स्वसमानकालीनायां स्वसजातीयायाश्च प्रकृतौ संक्रमय्य वीर्यविशेषत आम्रपनसादिपाकवद्वेद्यते स प्रदेशोदय इत्यर्थः, तत्रापि रसोऽस्त्येवेति सूचयितुं प्रदेशोदय इत्यनुक्त्वा प्रदेशानुभव इत्युक्तं, अनुभावो रसो ज्ञेय इत्युक्त्याऽनुभवशब्देन रसप्रतीतेः । स्वासमान- 20 कालीनायां प्रकृतौ संक्रमो न सम्भवतीति सूचयितुं समानकालीनेति पदम्, भिन्नजातीयायाच प्रकृतौ तन्न भवतीति सूचयितुं सजातीयेत्युक्तं, साजात्यश्च मूलप्रकृतिविभाजकतावच्छेदकधर्मेण । तेन कर्मत्वेन सजातीयत्वेऽपि ज्ञानावरणादौ दर्शनावरणादेर्न सङ्क्रम इति भावः ॥
उभयविधापि निर्जरा पुनरियं द्विविधेत्याह
सेयं सकामाकामभेदाभ्यां द्विधा । सम्यग्दृष्टिदेश विरतसर्वविरतानां साभिलाषं कर्मक्षयाय कृतप्रयत्नानां यः कर्मणां विध्वंसः सा सकामा ।
25