________________
: २१२: तत्त्वन्यायविभाकरे
[ अष्टमकिरणे तेभ्योऽपि छेदोपस्थापनीयास्संख्यातगुणाः, तेभ्योऽपि च सामायिकास्संख्यातगुणा बोध्या इति । इति षट्त्रिंशदू द्वाराणि । इति संवरतत्त्वम् ॥
अल्पबहुत्वद्वार इति । सर्वेभ्योऽल्पा इति, तत्कालस्याऽल्पत्वात् शतपृथक्त्वप्रमाणत्वाचेति भावः । परिहारविशुद्धिका इति, तत्कालस्य सूक्ष्मसम्परायापेक्षया बहुत्वात् सहस्र 5 पृथक्त्वमानत्वाचेति भावः । यथाख्याता इति । कोटीपृथक्त्वमानत्वादिति भावः । छेदोपस्थापनीया इति कोटीशतपृथक्त्वमानत्वादिति भावः । सामायिका इति, कोटीसहस्रपृथक्त्वमानत्वादिति भावः । इतीति सर्वत्रेतिशब्दस्तत्तद्वारसमाप्तिद्योतक इति बोध्यम् । इत्थं सामान्येन द्वाराणि वर्णितानीत्याहेतीति । एवमेव चास्रवदोषानवलेपसाधनः परिस्पन्दवतोऽपि
चरणकुशलस्य प्रायः कर्मागमद्वारसंवरणरूपस्संवरो दिङ्मात्रेणोपपादित इत्याह इतीति ।। 10 इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टधरश्रीमद्विजयकमलसूरीश्वर
चरणनलिनसन्यस्तात्मभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिमितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां संवरनिरूपणं नाम सप्तमः किरणः ॥
अथाष्टमः किरणः 15 अवसरसङ्गत्या संवरे सति निर्जरायाः फलवत्त्वेन प्रयोज्यतासङ्गत्या वा संवरनिरूपणानन्तरमभिधीयमानां निर्जरां लक्षयति
क्रमेण बद्धकर्मपुद्गलानां तपोविपाकान्यतरेण विध्वंसो निर्जरा ॥
क्रमेणेति । तपो बाह्याऽभ्यन्तरतया द्विविधं, तेन हि नूतनकर्मणां प्रवेशाभावः पूर्वसश्चितकर्मणां च परिक्षयो भवति, तत्राऽऽद्यस्संवररूपो द्वितीयश्च निर्जरारूपः, तस्मात्तप उभय20 स्याऽपि हेतुः । विपाको गतिनामादिकर्मणां नामानुगुणमुदयोऽनुभवः, ताभ्याञ्च जीवेन
बद्धानां कर्मपुद्गलानां ज्ञानावरणादिरूपाणां विध्वंसः कर्मपरिणतेर्विगमो जायते, सर्व निर्जरेत्यर्थः । अवस्थानहेत्वभावेन ह्यनुभूताः कर्मपुद्गला न पुनरावरणादिरूपेणाऽवतिष्ठन्ते, तथा च तपोविपाकान्यतरजन्यबद्धकर्मविध्वंसत्वं लक्षणम् । जन्यान्तन्तु तत्र कारणत्वप्रतिपादनपरमेव । तदपि कारणमसाधारणं विज्ञेयम् ॥
१. विवादाध्यासितः पुरुषो निर्जीर्णघातिचतुष्कः केवलज्ञानवत्त्वात् उभयवादिसिद्धतादृक्पुरुषवत् इत्यन्वयव्यतिरेकिणः, अन्वयासिद्धौ वा यो न जीर्णघातिचतुष्को नासौ केवलज्ञानवान् यथाऽस्मदादिरिति केवलव्यतिरेकिणो वाऽनुमानात् निर्जराऽस्मदादिभिरवसीयते, आप्तागमाच्च । सर्वज्ञेन तु स्वानुभवप्रत्यक्षेणेति ॥ २. महाव्रतादिषु हेत्वन्तरेषु सत्स्वपि तपस एव प्रधानतया निर्जराङ्गत्वादिति भावः ।।