________________
द्वाराणि ] न्यायप्रकाशसमलङ्कृते
: २११ : द्वौ त्रयो वोत्कृष्टतो द्विशताद्यावन्नवशतम् । प्रतिपन्नापेक्षया तु कचिन्न स्युः कचिच जघन्येनोत्कृष्टतश्च द्विशताद्यावन्नवशतकोटि स्युः॥ ___परिमाणद्वार इति । यावन्नवसहस्रकोटीति, कोटीसहस्रपृथक्त्वमित्यर्थः । यद्यपि सर्वसंयतानामेतावन्मात्रमानत्वेनास्यैव तावन्मानत्वे इतरसंयतमानमादाय संयतानामाधिक्यशङ्का स्यात् तथापि कोटीसहस्रपृथक्त्वस्य द्वित्र्यादिकोटीसहस्ररूपं कल्पयित्वा इतरेषां संख्या- 5 याः प्रवेशेनोक्तमानातिरेकसम्भवो व्युदसनीयः । द्विशतादिति, द्विशतकोटीतो यावन्नवशतकोटीत्यर्थः, कोटीशतपृथक्त्वमिति यावत् । इदञ्च छेदोपस्थापनीयसंयतपरिमाणमादिमतीर्थकरतीर्थान्याश्रित्य सम्भवति, जघन्यन्तु सम्यङ् नावगम्यते, यतो दुष्षमान्ते भरतादिषु दशसु क्षेत्रेषु प्रत्येकं तद्यस्य भावाविंशतिरेव तेषां श्रूयते । केचित्पुनराहुः, इदमप्यादितीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव समवसेयम् , कोटीशतपृथक्त्वञ्च जघन्यमल्पतरं उत्कृ- 10 ष्टश्च बहुतरमिति ॥
परिहारविशुद्ध्यादीनां परिमाणं विचारयति
परिहारविशुद्धिका अप्येवमेव, किन्तु प्रतिपन्नापेक्षया जघन्येनैको द्वौ त्रयः, उत्कर्षेण च द्विसहस्राद्यावन्नवसहस्रम् । सूक्ष्मसम्परायाश्च कचिन्न स्युः कचिच्च जघन्येनैको द्वौ त्रयः, उत्कृष्टतः क्षपकश्रेण्यामष्टोत्तरशतमु. 15 पशमश्रेण्यां चतुःपञ्चाशत्स्युः । प्रतिपन्नापेक्षया कचिन्न स्युः कचिजघन्ये. नैको द्वौ त्रयः, उत्कृष्टतो द्विशतान्नवशतं यावत्स्युः, यथाख्यातास्तु सूक्ष्मसम्परायवत् । प्रतिपन्नापेक्षया तु जघन्येनोत्कृष्टतश्च द्विकोटीतो यावन्नवकोटि भवेयुरिति ॥
परिहारविशुद्धिका इति । एवमेवेति, प्रतिपद्यमानकं प्रतीत्य स्यात्सन्ति स्यान्न सन्ति, 20 यदि सन्ति तदा छेदोपस्थापनीयवजघन्यत एको द्वौ त्रयो वा, उत्कृष्टतशतपृथक्त्वम् । प्रतिपन्नापेक्षया त्वेषां वैशिष्ट्यमस्तीत्याह-किन्त्विति । सूक्ष्मसम्परायवदिति क्वचित्स्युः क्वचिन्न स्युः, यदि स्युस्तदा क्षपकश्रेण्यपेक्षयाऽष्टोत्तरशतं, उपशमश्रेण्यपेक्षया तु चतुःपञ्चाशत्स्युरिति भावः । प्रतिपन्नापेक्षया त्वाह प्रतिपन्नेति । कोटीपृथक्त्वमिति यावत् ।। . अथाऽल्पबहुत्वद्वारमाह
25 अल्पबहुत्वद्वारे-पञ्चमु संयतेषु सर्वेभ्योऽल्पास्सूक्ष्मसम्परायाः,तेभ्यः परिहारविशुद्धिकाः संख्यातगुणाः, तेभ्यो यथाख्यातास्संख्यातगुणाः,