SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ तस्वन्यायविभाकरे [ सप्तमकिरणे लोकस्यासंख्येयभागमात्रावगाहित्वादाहासंख्यातभागे स्युरिति । तथाचासंख्येयभागेऽसंख्येयेषु भागेषु भवेयुर्न संख्येयभागे नवा संख्येयेषु भागेषु नवा च सर्वलोक इति भावः । असंख्यातभाग इति, तस्य दण्डकपाटकरणकाले लोकासंख्येयभागवृत्तित्वं, तदवगाहस्य तावन्मात्रत्वादिति भावः । असंख्यातभागेष्विति, मथिकरणकाले बहोर्लोकस्य व्याप्तत्वेन 5 स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासंख्येयेषु भागेषु वर्तत इति भावः । लोकाऽऽपूरणे च सर्वलोके वर्त्तत इत्याह केवलीति ॥ स्पर्शनाद्वारमाचष्टे स्पर्शनाद्वारे-सामायिकादयो यावत्सु भागेषु लोकस्य स्युस्ते तावतो भागान् स्पृशेयुः । समीपतरवर्तिपार्श्वभागस्पर्शनेन च किश्चिदधिका25 नपीति ॥ ___ स्पर्शनाद्वार इति । येषां यथावगाहना उक्तास्तथा तेषां स्पर्शना अपीत्याह सामायिकादय इति । तत्रापि किश्चिद्विशेषमाह समीपतरेति । क्षेत्रमवगाहनाविषयं स्पर्शना त्ववगाढक्षेत्रस्य तत्पार्श्वतरवर्तिनश्चेत्येतयोर्विशेषः ॥ भावद्वारमभिधत्ते20 भावद्वारे-सामायिकाश्चत्वारः क्षायोपशमिकभावे स्युः। यथाख्यातस्त्वौपशमिके क्षायिके च स्यादिति ॥ भावद्वार इति । यद्यपि परिहारविशुद्धिकेतरेषां केषाश्चित् क्षपकश्रेणिसम्भवस्तथापि सज्वलनलोभस्य दशमं यावद्भावान्न क्षायिको भाव इत्यत आह सामायिका इति । यथा ख्यातस्त्विति, एकादशगुणस्थानापेक्षयौपशमिकत्वं तदूर्ध्वगुणस्थानापेक्षया तु क्षायिक10 त्वमिति भावः ॥ परिमाणद्वारमाह - परिमाणद्वारे-सामायिकाः प्रतिपद्यमानापेक्षयैकस्मिन् काले कदाचिद्भवेयुः कदाचिच्च न । यदा भवेयुस्तदा जघन्येनैको द्वौ त्रयो वा, उत्कृ ष्टतो द्विसहस्राद्यावन्नवसहस्रम् । पूर्वप्रतिपन्नापेक्षया जघन्यत उत्कृष्ट15 तश्च द्विसहस्रकोटीतो यावन्नवसहस्रकोटि भवेयुः । छेदोपस्थापनीयास्तु प्रतिपद्यमानापेक्षया कदापि स्युः कदापि न । यदा स्युस्तदा जघन्येनैको
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy