________________
द्वाराणि ] न्यायप्रकाशसमलते
: २०१: कोटिसागरोपम इति । छेदोपस्थापनीयस्योत्कृष्टवदयं बोध्यः, षण्मासा इति मुक्तिविरहकालस्य तावन्मात्रत्वादिति भावः ।
समुद्धातद्वारं वक्ति
समुद्धातद्वारे-सामायिकछेदोपस्थापनीययोर्वेदनाकषायमरणवैक्रियतैजसाऽऽहारकाषट् समुद्धाता भवन्ति । परिहारविशुद्धिकस्य वेदना- 5 कषायमरणात्मकास्त्रयः। सूक्ष्मसम्परायस्य न कोऽपि। यथाख्यातस्य केवलिसमुद्धात एव भवेदिति ॥
समुद्धातद्वार इति । वेदनाद्यनुभवज्ञानेन सहैकत्वमापन्नो जीवः बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय च तेषां स्वप्रदेशसंश्लिष्टानां निर्जरणं समुद्धातः । स च सप्तविधो वेदनाकषायमरणवैक्रियतैजसाहारककेवलि 10 भेदात् । ते च यथाक्रमं असातवेदनीयकषायाख्यचारित्रमोहनीयान्तर्मुहूर्तावशेषायुःकर्मवैक्रियतैजसाहारकशरीरनामसदसवेद्यशुभाशुभनामोच्चैर्नीचैर्गोत्रकर्माश्रयाः । आधाषट् समुद्वाताः प्रत्येकमान्तौहूर्तिकाः, अन्यस्त्वष्टसामयिकः, तत्रान्तिमं विहायाऽन्ये षट् सामायिकछेदोपस्थापनीययोस्सम्भवन्ति तन्निमित्तसम्भवादित्याशयेनाह सामायिकेति । स्पष्टमन्यत् ।। क्षेत्रद्वारमाह
15 क्षेत्रद्वारे-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराया लोकस्याऽसंख्यातभागे स्युः। यथाख्यातस्त्वसंख्यातभागे, असंख्यातभागेषु केवलिसमुद्धातापेक्षया सर्वलोकव्याप्तश्च स्यादिति ॥
क्षेत्रद्वार इति । क्षेत्रमवगाहनाक्षेत्रं तदाश्रयतो विचारे प्रवृत्ते सामायिकादिचतुर्णा
१. तत्र वेदनापीडितो जीवः स्वप्रदेशाननन्तानन्तकर्मस्कन्धवेष्टितान् शरीरादहिरपि विक्षिपति तैश्च प्रदेशैवंदनजठरादिरन्ध्राणि कर्णस्कन्धाद्यपान्तरालानि चापूर्याऽऽयामतो विस्तारतश्च शरीरमात्रं क्षेत्रमभिव्याप्यान्तमुहूर्त यावदवतिष्ठते, तस्मिंश्चान्तर्मुहूर्ते प्रभूतासातवेदनीयकर्मपुद्गलपरिशाटं करोति । एवमेव कषायसमुद्धातोऽपि भाव्यः। मरणसमुद्धातगत आयुःकर्मपुद्गलान परिशाटयति, वैक्रियलब्धिमांश्च तद्गतः स्वप्रदेशान् शरीरादू बहिर्निष्कास्य शरीरविष्कम्भबाहल्यमानमायामतः संख्येययोजनप्रमाणं दण्डं निसृजति ततो यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्वत् शाटयति । एवं तैजसाहारकसमुद्धातौ भाव्यौ । केवलिसमुद्वातगतः केवली तु सदसद्वेद्यादिकर्मपुद्गलपरिशाटनं करोतीति ॥
२७