________________
: 206:
तस्याथविभाकरे
[ सप्तमकिरणे
भावादिति भावः । सूक्ष्म सम्परायाणां जघन्येनैकस्समय उत्कर्षेणाऽन्तर्मुहूर्त्तसमयो यथाख्यातानान्तु सामायिकवदेवाऽतस्तेषामेकजीवापेक्षयाऽत्र विशेषाभावान्मूले कण्ठतो नोक्ताः ॥
अन्तरद्वारमाह
अन्तरद्वारे- - एकस्य संघमग्रहणानन्तरमन्यस्य संयमग्रहणे जघ - 5 न्यत एकस्समय उत्कृष्टतस्संख्यातवर्षाण्यन्तरकालः । एवं यथाख्यातपर्यन्तं बोध्यः ॥
अन्तरद्वार इति । स्पष्टोऽयं पाठः । एकजीवमाश्रित्य तु विशेषोऽयं सामायिकस्य सामायिकत्वं त्यक्त्वा पुनर्ग्रहणे जघन्यमन्तरमन्तर्मुहूर्त्तमुत्कृष्टतस्त्वनन्तकालमेवं सर्वेषामपि ज्ञेयम् । इदमुत्कृष्टमन्तरं तीर्थकर गणधरादिमहापुरुषाणां घोराशातनया प्रवचनोड्डाहकानां 10 भवतीति भाव्यम् ।
पृथक्त्वापेक्षया त्वाह
सामायिक शून्यः कालो नास्त्येव । छेदोपस्थापनीयैश्शून्यः कालो जघन्येन त्रिषष्टिसहस्रवर्षाण्युत्कृष्ठतोऽष्टादशकटाकोटिसागरोपमः । परिहारविशुद्धिरहितः कालो जघन्येन चतुरशीतिसहस्रवर्षाण्युत्कृष्टतोऽ15 ष्टादशकोटाकोटिसागरोपमः । सूक्ष्मसम्परायरहितः कालो जघन्येनैकस्समयः । उत्कृष्टतष्षण्मासाः । यथाख्यातरहितः कालो नास्त्येवेति ॥
सामायिकैरिति । त्रिषष्टिसहस्रवर्षाणीति । अवसर्पिण्यां दुष्षमां यावच्छेदोपस्थापनीयसंयमः प्रवर्त्तते, तंतस्तस्या एवैकविंशतिसहस्रवर्षमानायामेकान्तदुः षमायामुत्सर्पिण्या चैकान्तदुःषमायां दुष्षमायाश्च तत्प्रमाणायामेव तदभावरस्यादेवञ्चैकविंशतित्रयेण त्रिषष्टिव20 र्षसहस्राण्यन्तरमुक्तमिति भावः । अष्टादशकोटाकोटिसागरोपम इति । उत्सर्पिण्यां चतुर्विंशतितमजिनतीर्थे छेदोपस्थापनीयस्य प्रवृत्तेस्ततोऽतीते च क्रमतो द्वित्रिचतुस्सागरोपमकोटीकोटिप्रमाणे सुषमदुःषमादिसमात्रयेऽवसर्पिण्याश्चैकान्तसुषमादित्रये क्रमेण चतुस्त्रिद्विसागरोपमकोटीकोटिप्रमाणेऽतीतप्राये प्रथमजिनतीर्थे छेदोपस्थापनीयत्वं प्रवर्त्तते इत्येवं छेदोपस्थापनीयस्यान्तरं भवति । चतुरशीतिवर्षसहस्राणीति । दुष्षमैकान्तदुष्षमयोरवसर्पिण्या 25 एकान्तदुःषमादुष्षमयोरुत्सर्पिण्याश्च प्रत्येकमेकविंशतिवर्षसहस्रप्रमाणत्वेन चतुर्भिर्गुणिते च तावत्प्रमाणकालान्तरं भवति, तत्र च परिहारविशुद्धिकस्याभावादिति भावः । अष्टादशकोटा