________________
द्वाराणि ]
प्रकाशम
: 2019:
कालमानद्वार इति । मानशब्देन पूर्वोदितकालद्वारापेक्षयाऽस्य वैलक्षण्यमादर्शितम् । एकस्समय इति, सामायिकत्वप्राप्तिसमनन्तरं मरणसम्भवमभिप्रेत्येदमवसे यमेवमग्रेऽपि भाव्यम् | उत्कर्षेण देशोनेति, गर्भसमयान्तर्भावेणेदम् । तद्बहिर्भावेण जन्मसमयादारभ्य त्वष्टवर्ष न्यूनपूर्व कोटिं यावत्स्यात् जन्मतोऽष्टवर्षांन्ते चरणप्रतिपत्तेरिति भावः । सामायिकाच्छेदोपस्थापनीयस्याविशेषादाहैवमिति । एकोनत्रिंशद्वर्षन्यूनेति । देशोननववर्ष जन्मपर्यायेण 5 केनापि चारित्रं पूर्व कोट्यायुषा गृहीतं तस्य च विंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादोऽनुज्ञातस्ततश्वासौ परिहारविशुद्धिकं प्राप्तस्तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्षाणां पूर्वकोटिं यावत्तत्स्यादिति भावः । अन्तर्मुहूर्त्तमिति, तत्स्थानस्य तावत्प्रमाणत्वादिति भावः । क्षीण मोहापेक्षयोत्कर्षेण देशोननव वर्षन्यूनपूर्वकोटिर्बोध्या । सर्वमिदमेकजीवापेक्षयाऽवसेयम् ॥
नानाजीवापेक्षया त्वाह
अनेकजीवापेक्षया तु सामायिकास्सर्वदा भवेयुः । छेदोपस्थापनीया जघन्यतस्सार्धद्विशतवर्षपर्यन्तमुत्कृष्टतः पञ्चाशल्लक्ष कोटिसागरोपमं यावत्स्युः । परिहारविशुद्धिका जघन्येन किञ्चिदून द्विशतवर्षकालमुत्कृष्टतः किञ्चिदून द्विपूर्वकोटिकालपर्यन्तं स्युः ॥
1
10
15
अनेकजीवापेक्षयेति । सर्वदा भवेयुरिति । प्रत्येकं तेषां बहुकालस्थितिकत्वात् महाविदेहापेक्षयैतदिति ज्ञेयम् । सार्धद्विशतवर्षपर्यन्तमिति । उत्सर्पिण्यामादितीर्थकरशासनस्य -सार्ध शतद्वयवर्षमानत्वेन तत्र छेदोपस्थापनीयसंयतस्य भावादिति भावः । पञ्चाशल्लक्षेति । अवसर्पिण्या मादितीर्थकरशासनस्य पञ्चाशल्लक्ष कोटिसागरोपममानत्वेन तत्र छेदोपस्थापनीय. " · संयतसद्भावादिति भावः । जघन्येन किञ्चिदूनेति । उत्सर्पिण्यां प्रथमजिनसमीपे केनचिद्वर्ष- 20 शतायुष्केण परिहारविशुद्धिकसंयमः परिगृहीतस्तज्जीवितान्ते तस्यान्तिकेऽपरेण वर्षशतायु- केण स एव संयमो गृहीतस्ततश्च न परिहारविशुद्धिकस्य प्रतिपत्तिरस्ति, तीर्थकरस्य तीर्थ· करागृहीत परिहारविशुद्धिकसंयतस्य वाऽन्तिक एव तग्रहीतुं शक्यत्वात् । ततश्च वर्षशतद्वयं · जातं, तत्राप्येकोनत्रिंशद्वर्षेषु व्यतीतेष्वेवैतच्चारित्रप्रतिपत्त्या मेलनतोऽष्टपञ्चाशद्वर्षाणि जातानि अतस्तन्यून द्विशतवर्षकालं भवतीति भावः । किञ्चिदूनेति । अवसर्पिण्यामादिमजिनस्यान्ति के 'पूर्वकोट्यायुष्कः कचित्परिहारविशुद्धिकत्वं प्रपन्नस्तस्यान्तिके च तज्जीवितान्ते तादृश एवान्य· स्तत्प्रतिपन्नः पुनस्तदभावेन पूर्वकोटिद्वयं जातं, तत्र चैकोनत्रिंशद्युग्मस्य न्यूनताकरणे तथा
25