________________
तत्त्वन्यायविभाकरे
: २०६ :
[ सप्तमकिरण
सम्भवन्तीति भावः । प्रतिपद्यत इति सूक्ष्मसम्परायत्वमित्यादिः । द्विवारमिति, उपशमश्रेणिद्वयसम्भवादिति भावः ॥
अथ नानाभवावच्छेदेन विचारयति -
अनेकभवाश्रयेण सामायिकस्य जघन्यतो द्विवारं उत्कृष्टतस्सहस्र5 पृथक्त्वमाकर्षा भवन्ति । छेदोपस्थापनीयस्य जघन्यतो द्विवारमुत्कृष्टतो नवशतादूर्ध्वं सहस्रावध्याकर्षा भवन्ति । परिहारविशुद्धिकस्य जघन्यतो द्विवारमुत्कृष्टतस्सप्ताकर्षाः, सूक्ष्मसम्परायस्य जघन्यतो द्विवारमुत्कृष्टतो नवाकर्षा', यथाख्यातस्य जघन्यतो द्विवारमुत्कृष्टतः पञ्चाकर्षा भवन्तीति ॥
अनेकभवाश्रयेणेति । अनेकभवत्वस्य प्रथमाधारभूतभवद्वये जघन्यतः प्रतिभवमेकस्यै10 वाकर्षस्योक्तत्वादनेकभवापेक्षया जघन्यतो द्वावेवाकर्षौ भवत इत्यभिप्रायेणाह जघन्यतो द्विवारमिति | सहस्रपृथक्त्वमिति सहस्रद्वयादारभ्य यावन्नवसहस्रं सहस्रपृथक्त्वमुच्यते । सामायिकस्य ह्येकभवे आकर्षाणां शतपृथक्त्वकथनात् भवानामुत्कृष्टतश्चाष्टत्वाच्छतपृथक्त्वेऽष्टभिर्गुणिते सहस्रपृथक्त्वं भवतीति भावः । नवशतादूर्ध्वमिति । आकर्षाणां षड्डिशतिरेकभवेऽस्य भवति, भवाश्चास्योत्कर्षेणाष्टौ तथा चाकर्षास्ता अष्टाभिर्गुणिताः षष्ठयधिक15 नवशतानि भवन्ति । संभवमात्राश्रयणेनेदमुक्तम्, अन्यथा सामायिकस्य नवानां शताना - मेकभवीयानामष्टभिर्गुणने शतद्वयाधिकसप्तसहस्राणि बोध्यान्येवमन्येषामपि ज्ञेयं । उत्कर्ष - तस्सप्तेति । भवैकावच्छेदेनाकर्षाणां त्रित्वात् भवस्यापि त्रित्वादेकत्र तेषां त्रयं द्वितीये द्वयं तृतीयेऽपि द्वयमित्येवं विकल्पनया सप्ताकर्षा इति भावः । नवाकर्षा इति । अस्यैकस्मिन् भवे आकर्षचतुष्कस्योक्तत्वाद्भवत्रयस्याभिधानाञ्चैकत्र चत्वारो द्वितीयेऽपि चत्वारस्तृतीये 20 चैक इति कृत्वा नवाऽऽकर्षा भवन्तीति भावः । पञ्चाकर्षा इति, अस्यैकत्र भवे द्वावाकर्षो भवत्यतः एकत्र द्वौ द्वितीये द्वौ तृतीये चैक इति पञ्चाकर्षा इति भावः ॥
कालमानद्वारमाचष्टे—
कालमानद्वारे - सामायिकस्य संयमकालमानं जघन्येनैकस्समयः । उत्कृष्टतो देशोननववर्षन्यूनपूर्वकोटिं यावत् । एवमेव छेदोपस्थापनीयस्य । 25 परिहारविशुद्धिकस्य जघन्येनैकस्समयः, उत्कृष्टत एकोनत्रिंशद्वर्षन्यूनकोटिं यावत् । सूक्ष्मसम्परायस्य जघन्येनै कस्समयः । उत्कृष्टतोऽन्तर्मुहू र्त्तम् । यथाख्यातस्य तु सामायिकस्येव स्यादिति ॥