________________
द्वाराणि ]
न्यायप्रकाश
: २०५:
भवद्वारमाह
भवद्वारे-सामायिको जघन्यतः एकं भवमुत्कृष्टतोऽष्टौ भवान् गृह्णीयात्। एवं छेदोपस्थापनीयोऽपि । परिहारविशुद्धिको जघन्यत एकमुत्कृष्टतस्त्रीन् । एवं यथाख्यातं यावंदिति ॥
भवद्वार इति । सामायिक उत्कृष्टपरिणामतो यदि क्षपकश्रेणिमारोहेत्तदा तस्मिन्नेव 5 भवे सिद्ध्यतीत्याह जघन्यत इति । यदि तु श्रेणिमनारूढो जघन्येन सामायिकचारित्रं स्पृशेत्तदाऽऽष्टौ भवग्रहणानि तस्य स्युरित्याशयेनाहोत्कृष्टत इति | जघन्यत एकमिति, परिहारविशुद्धिकस्तत्त्वं विहाय छेदोपस्थापनीयत्वमवाप्य विशुद्धिविशेषेण क्षपकश्रेणिमारोहति चेत्तदेदमिति भावः । देवलोकगमनञ्चेद्भवेत्तदा मनुष्यो भूत्वा तेनैव भवेन सिद्ध्यतीत्याशयेनाहोत्कृष्टतस्त्रीनिति । एवमिति यथाख्यातस्तु तद्भाव एव मृत्वाऽनुत्तरदेवत्वविशेष- 10 माप्य पुनर्मनुष्यो भूत्वा यदि सिद्धयेत्तदा भवत्रयं बोध्यम् ।।
आकर्षद्वारमभिधत्ते
आकर्षद्वारे-सामायिक एकभवमाश्रित्य जघन्यत एकवारं, उत्कृष्टतश्शतपृथक्त्ववारं सामायिकसंयतत्वं प्राप्नोति । छेदोपस्थापनीयो जघन्यत एकवारमुत्कृष्टतो विंशतिपृथक्त्ववारं छेदोपस्थापनीयत्वं प्राप्नु- 15 यात् । परिहारविशुद्धिको जघन्यत एकवारमुत्कृष्टतस्त्रिवारं प्राप्नुयात् । सूक्ष्मसम्परायो जघन्यत एकवारमुत्कृष्टतश्चतुरो वारान् प्रतिपद्यते, यथाख्यातस्तु जघन्यत एकवारमुत्कृष्टतो द्विवारं यथाख्यातत्वं प्राप्नुयादिति ॥
आकर्षद्वार इति । आकर्षणमाकर्षः प्रथमतया मुक्तस्य वा सामायिकत्वादेर्ग्रहणमि- 20 त्यर्थः । स चैकं भवं नानाभवांश्चाश्रित्य विचार्यते तत्रैकभवाश्रयेण सामायिकस्य जघन्यत एक आकर्ष उत्कर्षेण चाकर्षाणां शतपृथक्त्वं भवति परतस्तु प्रतिपातोऽलाभो वेत्याशयेनाह सामायिक इति । पृथक्त्वं द्विप्रभृत्यानवभ्य उच्यते, शतपृथक्त्वमिति, शतद्वयादारभ्य यावनवशतमित्यर्थः । विंशतिपृथक्त्ववारमिति, पञ्चषादिविंशतय आकर्षाणां भवन्तीति भावः । त्रिवारमिति, एकस्मिन् भवे उत्कर्षेण वारत्रयमेव परिहारविशुद्धिकत्वोक्तेरिति भावः। 25 प्राप्नुयादिति परिहारविशुद्धिकत्वमित्यादिः । चतुरो वारानिति, एकभवे उपशमश्रेणिद्वयसम्भवे प्रत्येकं संक्लिश्यमानविशुद्ध्यमानलक्षणसूक्ष्मसम्परायद्वयभावाच्च चत्वार आकर्षास्तस्य