________________
: २०४ :
तस्वन्यायविभाकरे
[ सप्तमकिरणे
श्रेणिसमारोहणत इति । तत्त्वं त्यजन्निति, यथाख्यातत्वं त्यजन्नित्यर्थः, श्रेणीप्रतिपातत इति उपशमश्रेणीतः प्रतिपातादित्यर्थः । स्पष्टमन्यत् ॥
संज्ञाद्वारमाचष्टे -
संज्ञाद्वारे- सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकास्संज्ञोपयुक्ता 5 नोसंज्ञोपयुक्ता भवन्ति, संज्ञोपयुक्ता आहारादिष्वासक्ताः, नोसंज्ञोपयुक्ता आहारादिष्वासक्तिरहिताः । सूक्ष्मसम्पराययथाख्यातौ लु आहारादिकर्तृत्वेऽपि नोसंज्ञोपयुक्तौ स्यातामिति ॥
संज्ञाद्वार इति । जीवस्संज्ञायतेऽनयेति संज्ञा, वेदनीय मोहोदयाश्रिता ज्ञानदर्शनावरणक्षयोपशमाश्रिता च विचित्राहाराद्यभिलाषादिक्रिया, सा चोपाधिभेदाद्दशविधा, आहारे10 भयपरिग्रहमैथुनक्रोधमानमायालोभौघलोकभेदात् । सामायिक इति, संज्ञोपयुक्ता इति वेदनीयमोहोदयादिनिमित्तसद्भावादिति भावः । नोसंज्ञोपयुक्ता भवनिमित्तोपशमप्रभावादिति भावः । सरागत्वे निरभिष्वङ्गतायास्सर्वथाऽभाव इति नियमाभावादिति तात्पर्यम् । नोसंज्ञो - पयुक्ता इति, ज्ञानप्रधानोपयोगवन्तः, आहाराद्युपभोगेऽपि तत्रानभिष्वक्ताः नीरागत्वादिति भावः । संज्ञोपयुक्तशब्दार्थमाह संज्ञोपयुक्ता इति, नोसंज्ञोपयुक्त शब्दार्थमाह नोसंज्ञोपयुक्ता 15 इति, स्पष्टमवशिष्टम् ॥
आहारकद्वार माह —
आहारकद्वारे- सामायिकाश्चत्वार आहारका एव, यथाख्यातस्त्रयोदशगुणस्थानं यावदाहारकश्चतुर्दशगुणस्थाने केवलिसमुद्वाततृतीयचतुर्थपञ्चमसमयेष्वनाहारक इति ॥
20
आहारकद्वार इति । औदारिकवैक्रियाहारकपुद्गलादानमाहारस्तं करोतीत्याहारकः । तत्तद्भवयोग्यपुद्गलादानस्यावश्यकत्वात्सामायिकादीनामाहारकत्वमेवेत्यभिप्रायेणाह सामायिका इति, सामायिकत्वादिविशिष्टा इत्यर्थः यथाख्यातस्सयोग्यन्तमाहारक एवेत्याह यथाख्यात इति । अष्टसामयिके समुद्घाते तृतीयचतुर्थपञ्चमसमयेषु केवलकार्मणयोगयुतत्वेनाहारग्रहणासम्भवादनाहारकः, अयोगिन शैलेश्यवस्थायां ह्रस्वपञ्चस्व रोच्चारणप्रमाणमात्रमाना25 याच तथेति भावः ॥
१. तत्राहारसंज्ञा वेदनीयोदयात् भयपरिग्रहैमथुन क्रोधमानमायालोभसंज्ञाः मोहोदयात् ओघसंज्ञा ज्ञानावरणीयात्पक्षयोपशमात् लोकः स्वच्छन्दपरिकल्पितविकल्परूपः, लोकसंज्ञा च ज्ञानावरणीय क्षयोपशमात् मोहोदयाच्च भवति ॥