________________
: २०३ :
द्वाराणि ]
न्यायप्रकाश समलङ्कृ
भावः । द्वे वेति, क्षीणमोहे ज्ञानदर्शनावरणान्तरायेष्वावलिकामात्रावशिष्टेषु तेषामुदीरणाया अभावान्नामगोत्रलक्षणे द्वे एव कर्मणी उदीरयतीति भावः । पञ्च वेति, उपशान्तमोहे वेद्यमानस्यैवोदीरणानियमेन मोहनीयस्योदयाभावेनोदीरणाया अभावाद्वेदनीयायुषोश्च पूर्वोक्तकारणेनाभावात् क्षीणमोहे मोहस्य क्षीणत्वाच्च पञ्चानां कर्मणामुदीरक इति भावः । अनुदीरक इति, उदीरणाया योगसव्यपेक्षत्वेन तत्र योगाभावादिति भावः ॥
2
5
उपसम्पद्धानद्वारमाचष्टे
उपसम्पद्धानद्वारे- सामायिकस्सामायिकत्वं त्यजन् छेदोपस्थापनीयत्वं सूक्ष्मसम्परायत्वमसंयतत्वं वा प्राप्नुयात् । छेदोपस्थापनीयत्वं त्यजन् सामायिकत्वं परिहारविशुद्धिकत्वं सूक्ष्मसम्परायत्वमसंयतत्वं वा प्राप्नुयात् । परिहारविशुद्धिकः परिहारविशुद्धिकत्वं त्यजन् पुनर्गच्छाद्या- 10 श्रयणाच्छेदोपस्थापनीयत्वं देवत्वोत्पत्तावसंयतत्वं वा भजेत् । सूक्ष्मसम्परायस्तत्त्वं श्रेणिप्रतिपातेन त्यजन् पूर्वं सामायिकश्चेत्तत्त्वं छेदोपस्थापनीयश्चेत्तत्त्वं श्रेणिसमारोहणतो यथाख्यातत्त्वं वा यायात् । यथाख्यात संयतस्तु तत्त्वं त्यजन् श्रेणिप्रतिपाततो सूक्ष्मसम्परायत्वं असंयमं वा प्रतिपद्यते, उपशान्तमोहत्वे मरणाद्देवोत्पत्तिं स्नातकत्वे तु सिद्धि- 15 गति प्रतिपद्यत इति ॥
उपसम्पद्धानद्वार इति । उपसम्पत् छेदोपस्थापनीयत्वादीनां सामायिकादेः प्राप्तिः, हानं तस्यैव सामायिकत्वादीनां त्यागस्ते अधिकृत्य विचार इत्यर्थः । छेदोपस्थापनीयत्वमिति चतुर्यामधर्मात्पञ्चयामधर्मसंक्रमे पार्श्वनाथशिष्यवत् तथा शिष्यको वा महाव्रतारोपण इति भावः । सूक्ष्मसम्परायत्वमिति, श्रेणिप्रतिपत्तित इति भावः । असंयतत्वमिति भावप्रतिपातादिति भावः । त्यजन्निति, यथाऽऽदिदेवतीर्थ साधुर जितस्वामितीर्थं प्रतिपद्यमानः, अजितस्वामिशासने छेदोपस्थापनीयत्वाभावादिति भावः । परिहारविशुद्धिकत्वमिति परिहारविशुद्धिकसंयमे हि छेदोपस्थापनीयसंयतस्यैव योग्यता, अत एव सामायिकस्य स्वस्वभावपरित्यागे परिहारविशुद्धिकत्वप्राप्तिर्मूले नोक्तेति भावः । सूक्ष्मसम्परायत्वं श्रेण्यारोहणाद्भावप्रतिपाताच्चासंयतत्वं संयतासंयतत्वं वा प्रतिपद्यत इत्याह सूक्ष्मसम्परायत्वमिति, स्पष्टं 55 शिष्टम् । तत्त्वमिति, सूक्ष्मसम्परायत्वमित्यर्थः । श्रेणिप्रतिपातेनेति, अद्धाक्षयेण भवक्षयेण वोपशमश्रेणीतः प्रतिपातेनेत्यर्थः, येन संयमेन सूक्ष्मसम्परायत्वमाप्तः तत्त्वं पतन्नवाप्नोतीत्याशयेनाह पूर्वमिति । श्रेण्यां वर्द्धमानः सूक्ष्मसम्परायो यथाख्यातत्वमेवाप्नोतीत्याह
1
20