________________
.: १०२ :
5
स्वन्यायविभाकरे
[ सप्तमकिरणे
तादृशमाश्रित्यायुर्वर्जेत्युक्तम् । मोहनीयायुर्वर्जेति । अप्रमत्तत्वाद्वादरकषायोदयाभावाच्चेति भावः । वेदनीयमेवेति, बन्धहेतुषु योगानामेव सत्त्वादिति स्पष्टार्थः । बन्धरहित एवेति, बन्धहेतूनां सर्वेषामभावादिति तात्पर्यार्थः ॥
वेदनाद्वारमाह
वेदनाद्वारे - सामायिकाद्याश्चत्वारोऽष्टौ कर्मप्रकृतीरनुभवन्ति । यथाख्यातस्तु निर्ग्रन्थावस्थायां मोहवर्जसप्तकर्मप्रकृतीनां वेदको मोहनीयस्योपशान्तत्वात्क्षीणत्वाद्वा । स्नातकावस्थायां घातिकर्मप्रकृतिक्षयाञ्चतसृणां वेदक इति ॥
वेदनाद्वार इति । अष्टाविति, नियेमेनेति शेषः । मोहवर्जेति तत्र हेतुमाह 10 मोहनीयस्येति, उपशमश्रेण्या क्षपकश्रेण्येति भावः ॥
उदीरणाद्वारमाह
उदीरणाद्वारे- सामायिक छेदोपस्थापनीयपरिहारविशुद्धिका अष्टौ सप्त षड्वा कर्मप्रकृतीरुदीरयन्ति । सूक्ष्मसम्पराय आयुर्वेदनीयवर्जषट्कर्म - प्रकृतीरायुर्वेदनीय मोहवर्जपश्च कर्मप्रकृतीर्वोदीरयति । यथाख्यातस्तु द्वे वा 15 पञ्च वा कर्मप्रकृतीरुदीरयति चतुर्दशगुणस्थाने त्वनुदीरक इति ॥
उदीरणाद्वार इति । उदद्यावलिकातो बहिर्वर्त्तिनीनां स्थितीनां दलिकं कषायैस्स हितेनासहितेन वा योगसंज्ञकेन वीर्यविशेषेण समाकृष्योदयावलिकायां प्रवेशन मुदीरणा, तस्याः पञ्चस्थानानि, सप्ताष्टौ षट् पञ्च द्वे इति । अष्टाविति, प्रमत्तगुणस्थानं यावत्परिपूर्णा अष्टप्रकृतीरित्यर्थः । सप्तेति, केवलमनुभूयमानभवायुष्कावलिकावशेषे सत्यायुष आवलिका20 प्रविष्टत्वेनोदीरणाया अभावादिति भावः । षङ्केति, अप्रमत्तापूर्वकरणानिवृत्तिबादरा वेदनीयाकर्मणामुदीरकाः, न तु वेदनीयायुषोः, तदुदीरणायोग्याध्यवसायाभावात् अतिविशुद्धत्वादिति भावः । सूक्ष्मसम्पराय इति, यावन्मोहनीयमावलिका शेषं न भवति तावत् षण्णां, आवलिकाशेषे च मोहनीये तस्याप्युदीरणाया अभावात्पञ्चानामुदीरक इति
१. मोहनीयस्योदयेऽष्टानामुदयः, मोहनीयवर्णानां त्रयाणां घातिकर्मणामुदयेऽष्टानां सप्तानां वा तत्राष्टानां सूक्ष्म सम्पराय गुणस्थानं यावत् सप्तानामुपशान्तमोहे क्षीणमोहे वा, वेदनीयायुर्नामगोत्राणामुदयेऽष्टानां सप्तानां चतसृणां वोदयः, सूक्ष्मसम्परायं यावदष्टानां उपशान्तमोहे क्षीणमोहे वा सप्तानां चतसृणामेतासामेव वेदनीयादीनां सयोगिकेवलिन्ययोगिकेवलिनि चेति ॥