________________
राणि.]
न्यायप्रकाशलमलाईते । - परिणामद्वार इति । त्रिविधः परिणामश्शुद्धेर्वर्धमानहीयमानस्थिरभेदात् । शुद्धेरुत्कपप्राप्तिर्वर्धमानपरिणामः, अपकर्षप्राप्तिीयमानपरिणामः, अवस्थानञ्च स्थिरपरिणामः । त्रिविधोऽप्ययं परिणामस्सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकानां भवतीत्याह सामायिकेति । न स्थिरपरिणामवानिति, गुणस्थानकस्वभावादिति भावः । ननु सूक्ष्मसम्परायसंयतस्य वर्धमानहीयमानपरिणामौ कियत्कालं भवत इत्यत्राह तत्कालस्त्विति, वर्धमानो हीयमानश्च काल 5 इत्यर्थः। जघन्यत इति । तावेकसमयवर्तिनावित्यर्थः । प्रतिपत्तिसमयानन्तरमेव मरणसम्भवादिति भावः । सिंहावलोकनन्यायेन सामायिकादित्रयाणां परिणामकालमाहाऽऽद्यानामिति । काल इति, वर्धमानकालो हीयमानकालोऽवस्थितकालो वेति भावः । तत्र वर्धमानपरिणामकाले बाधिते कषायेणैकसमयमनुभवनाजघन्येनैकस्समयः, वर्धमानपरिणामस्यान्तर्मुहूर्त्तकालावस्थानस्वभावत्वादुत्कर्षेणान्तर्मुहूर्तः। एवमेव हीयमानावस्थितपरिणामौ बोध्यौ। 10 यथाख्यातस्य वर्धमानावस्थितपरिणामावेवेत्याह यथाख्यातस्त्विति । प्रत्येकं कालमानमाह वर्धमानेति । यः केवलज्ञानमुत्पादयिष्यति यश्च शैलेशी प्रतिपन्नस्तस्यैवं बोध्यः, तदुत्तरकालं तद्व्यवच्छेदात् । एकस्समय इति, उपशमाद्धायाः प्रथमसमयानन्तरमेव मरणादिति भावः । किश्चिदूनेति, नववर्षोनेत्यर्थः । पूर्वकोट्यायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेषु गतेषु केवलज्ञानमुत्पद्यते, ततोऽसौ तदूनां पूर्वकोटीमवस्थितपरिणामशैलेशी यावद्विहरति 15 शैलेश्याश्च वर्द्धमानपरिणामः स्यात्, अतो देशोनेत्युक्तमिति भावः ।
बन्धद्वारमाचष्टे
बन्धद्वारे-सामायिकादयस्त्रयोऽष्टौ कर्मप्रकृतीरायुर्वर्जसप्तकर्मप्रकृतीर्वा बध्नन्ति । सूक्ष्मसम्परायो मोहनीयायुर्वषट्कर्मप्रकृतीबंध्नाति । यथाख्यातस्तु एकादशद्वादशत्रयोदशगुणस्थानेषु वेदनीयमेव बध्नाति । चतुर्दशे 20 तु षन्धरहित एवेति ॥
बन्धद्वार इति, अष्टौ कर्मप्रकृतीरिति, आयुबंधकाले परिपूर्णा इति शेषः । आयुर्वजेति, त्रिभागाद्यवशिष्टायुषामेव जीवानामायुर्बन्धकतया विभागद्वयादौ नायुर्बन्धकत्वमिति
१. आयुषि बध्यमाने नियमेनाष्टावपि प्रकृतयो बध्यन्ते, मोहनीये तु बध्यमाने अष्टौ, आयुर्वर्जास्सप्त वा, ज्ञानदर्शनावरणनामगोत्रान्तरायेषु बध्यमानेषु, अष्टौ, सप्त, षद, षट् च मोहनीयायुर्वस्सूिक्ष्मसम्पराये प्राप्यन्ते, वेदनीये तु बध्यमानेऽष्टौ सप्त षडेका च, तत्रैका वेदनीयरूपा उपशान्तादित्रिषु स्थानेषु. तत्राष्टविधबन्धकाः अप्रमत्तान्ताः, सप्तविधबन्धकाः अनिवृत्तिबादरान्ताः षड्विधबंन्धकास्सूक्ष्मसम्परायाः, एते सरागाः मोहनीयोदयादिति बोध्यम् ॥