________________
तत्त्वम्याग्रविभाकरे .
[ सप्तमकिरणे परिहारविशुद्धिकः शुभलेश्यात्रयवान् । सूक्ष्मसम्परायश्शुक्लमात्रलेश्यावान् । यथाख्यातस्तु परमशुक्ललेश्यावान्, चतुर्दशगुणस्थाने तु लेश्यारहित इति ॥
लेण्याद्वार इति । कृष्णादिद्रव्यसाचिव्यप्रयुक्तजीवपरिणामविशेषो लेश्या । योगनिमि5 त्तेयं, तेन सहान्वयव्यतिरेकानुविधानात् । तत्रापि योगघटकद्रव्यरूपा, न तु योगनिमित्तकर्मद्रव्यस्वरूपा, योगनिमित्तकर्मणो घायघात्यन्यतरात्मकत्वात् , तत्र च घातिस्वरूपत्वे यथाख्याते सयोगिनि परमशुक्ललेश्याया असत्त्वप्रसङ्गः, अघातिस्वरूपत्वे तु चतुर्दशगुणस्थानस्थे यथाख्याते लेश्यायाः सत्त्वप्रसङ्गश्च स्यात् । अयोगिनो योगपरिणामाभावे लेश्यापरिणामाभावाद्योगपरिणाम एव लेश्या, योगघटकत्वेन चास्याः कषायाणामुदयोपळूहक10 त्वमनुभागहेतुत्वञ्च, इयं भावलेश्या, द्रव्यलेश्या तु कृष्णादिद्रव्यात्मिका, सा च कृष्णनील
कापोततेजःपद्मशुक्लभेदात् षोढा । कृष्णद्रव्यसम्बन्धप्रयुक्ताविशुद्धपरिणामः कृष्णलेश्या, एवं नीलनीललोहितलोहितपीतशुक्लद्रव्यप्रयुक्तत्वं नीलादिलेश्यानां भाव्यम् । कृष्णनीलकापोता अशुभाश्शेषाश्शुभाः । षड्विधलेश्यावन्ताविति, सकषायमेवाश्रित्येदम् । शुभलेश्यावयवानिति, तेजःपद्मशुक्ललेश्यावानिति भावः । भावलेश्यापेक्षया प्रशस्ता एते । परमशुक्ललेश्या15 वानिति, अतिविशुद्धपरिणामत्वात् शुक्लध्यानस्य तृतीयो भेदस्तत्रोपयोगिनी, परमशुक्ललेश्येत्युच्यते, एकादशद्वादशगुणस्थानस्थयोः केवलं शुक्ला । चतुर्दशे तु नास्ति लेश्येत्याह-चतुर्दशेति । योगाभावादिति भावः॥ .. परिणामद्वारमाह- . .. ..
.. परिणामद्वारे-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिका वर्द्धमा 20 नहीयमानस्थिरपरिणामवन्तः । सूक्ष्मसम्परायः श्रेण्यां बर्धमानो हीयमा
नश्च स्यान्न स्थिरपरिणामवान् । तत्कालस्तु जघन्यतस्समय एक उत्कृष्टतोऽन्तर्मुहूर्तपरिमाणः। एवमाद्यानां कालो ज्ञेयः। यथाख्यातस्तु न हीयमानपरिणामवान् । वर्धमानपरिणामकालस्तु जघन्यत उत्कृष्टतश्चा
न्तर्मुहूर्तमानमिति । स्थितिस्तु जघन्येनैकस्समयः । उत्कृष्टतस्त्रयोदश25 गुणस्थानस्थस्य किश्चिदूनपूर्वकोटिपर्यन्ता बोध्येति ॥
१. पूर्वप्रतिपन्नस्तु सर्वास्वपि कथञ्चिद्भवति, तत्रापि नात्यन्तसंक्लिष्टासु वर्त्तते, तथा भूतासु वर्तमानो न प्रभूतं कालमवतिष्ठते, किन्तु स्तोकम् , तत्र प्रवृत्तिस्तु कर्मवशादिति ॥