________________
10
: : उपयोगद्वारमाख्याति--
उपयोगद्वारे-आद्यास्त्रयो यथाख्याताश्च साकारनिराकारोपयोगषन्तः स्युः सूक्ष्मसम्परायस्तु साकारोपयोग्येवेति ॥
उपयोगद्वार इति । उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीव एभिरित्युपयोगा बोधरूपा जीवस्य स्वतत्त्वभूता व्यापाराः, ते च द्विधा-साकारा अनाकाराश्च, तत्राकारः, 5 प्रतिवस्तु प्रतिनियतो ग्रहणपरिणामरूपो विशेषः, सहाकारेण वर्तन्त इति साकाराः, सामान्यविशेषात्मके वस्तुनि विशेषांशग्राहिण इत्यर्थः । तद्विपरीतास्त्वनाकाराः सामान्यांशप्राहिण इत्यर्थः । आया इति । सामायिकछेदोपस्थापनीयपरिहारविशुद्धिका यथाख्याताश्च साकारोपयोगवन्तो निराकारोपयोगषन्तश्च । साकारोपयोग्येवेति, नाऽनाकरोपयोगयुक्तस्तस्य तथास्वभावत्वादिति भावः ।।
कषायद्वारं वक्ति
कषायद्वारे-सामायिकस्सकषाय एव । छेदोपस्थापनीयोऽप्येवम् । परन्तु श्रेणिगतयोस्तु प्रथमं चत्वारः कषायाः, ततः क्रोधादिषु क्रमेण प्रथमादीन् विहाय त्रयो द्वावेको वा स्यात् । परिहारविशुद्धिकस्तु । सकषाय एव श्रेणिप्राप्त्यभावात् । सूक्ष्मसम्परायस्संज्वलनलोभकषाय- 15 वान् यथाख्यातस्त्वकषायीति ॥ __कषायद्वार इति । सकषाय एवेति एवशब्देनाकषायत्वव्यवच्छेदः । तथात्वेऽपि यो विशेषस्तमाह परन्त्विति । श्रेणिगतयोरिति । उपशमश्रेणिं वा क्षपकश्रेणिं वा प्रविष्टयोस्सामायिकछेदोपस्थापनीययोरित्यर्थः । प्रथममिति, श्रेणिप्रतिपत्तिपूर्वमित्यर्थः । चत्वार इति, संज्वलनक्रोधमानमायालोभरूपा इत्यर्थः, तत इति, श्रेणिना संज्वलनक्रोधादिके 20 उपशान्ते क्षीणे वेत्यर्थः । क्रमेणेति, क्रोधं विहाय त्रयः, क्रोधमानौ विहाय द्वौं, क्रोधमानमाया हित्वैको वा स्यादित्यर्थः । सकषाय एवेति । संज्वलनक्रोधमानमायालोभलक्षणचतुःकषायवानेव, न तु तस्य त्रयो द्वावेको वा कषायो भवेदित्यर्थः । किमयमेवमेव भवेदित्यत्राह श्रेणीति, उपशमक्षपकान्यतरश्रेणिप्राप्त्यभावात् , तथास्वभावत्वादिति भावः । यथाख्यातस्त्विति । उपशान्तकषायवान् क्षीणकषायवान्वा स्यादिति भावः ॥ लेण्याद्वारमभिधत्तेश्याद्वारे-सामायिकछेदोपस्थापनीयौ षड्विधलेल्यावन्तौ ।
25