SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ : ११ : [ सप्तमकिरणे द्वयापेक्षयाऽपि तथैव । एवमेव परिहारविशुद्धिकोऽपि । सूक्ष्मसम्पराय आद्यत्रयापेक्षयानन्तगुणाधिक एव । सूक्ष्मसम्परायान्तरापेक्षया तुल्यो - मन्तगुणेन हीनोऽधिकोऽपि स्यात् । यथाख्यातापेक्षयाऽनन्तगुणहीनः । यथाख्यातस्तु विजातीयसंयतापेक्षयाऽनन्तगुणेनाधिक एव, सजातीया5 पेक्षया तु तुल्य एवेति ॥ न्यायविभाकरे आद्यत्रय चारित्र्यपेक्षयेति - सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकरूपसजातीयविजातीयसंयतापेक्षयेत्यर्थः । सामायिकवदिति, हीनाधिकसमत्वानि भवेयुर्हीनाधिकत्वे तु षट्स्थानपतितत्वञ्च भवेदिति भावः । अन्त्यद्वयापेक्षयापि तथैवेति, सूक्ष्मसम्पराययथाख्यातरूपविजातीयसंयतापेक्षयाऽनन्तगुणहीन चारित्रपर्यायवानित्यर्थः । परिहारविशुद्धि10 कोsपि सामायिकतुल्य एवेत्याह एवमेवेति । अनन्तगुणाधिक एवेति । सामायिकछेदोपस्थापन परिहारविशुद्धिकानां तथाविधविशुद्धपर्यायाभावेनाऽयमनन्तगुणाधिक एव, न हीनों नवा समान इति भावः । सजातीयसंयतान्तरापेक्षया तु हीनाधिकतुल्यतास्स्युरेवेत्याहसूक्ष्मेति । यथाख्यातापेक्षया तु कथमित्यत्राह - यथाख्यातेति । अनन्तगुणहीन इति, अनन्तगुणेन हीन एवेत्यर्थः समत्वे वाऽयमपि यथाख्यात एव स्यादिति भावः । 15 यथाख्यातोऽपि विजातीयचारित्र्यपेक्षयाऽधिक एवान्यथा स्वरूपहान्यापत्तेः सजातीयान्तरापेक्षया तुल्य एव, परस्परं तारतम्याभावादित्याशयेनाह यथाख्यातस्त्विति । अल्पबहुत्वचिन्तायान्तु सामायिकछेदोपस्थापनीययोर्जघन्याश्चारित्रपर्यायाः परस्परं तुल्यास्सर्वेभ्यस्स्तोकाश्च । परिहारविशुद्धिकसंयतस्य जघन्याश्चारित्रपर्याया अनन्तगुणास्तस्यैवोत्कर्षका पर्याया अनन्तगुणाः, सामायिकछेदोपस्थापनीययोश्चैतयोरुत्कर्षका श्चारित्रपर्याया द्वयो20 रपि तुल्याः परिहारतस्त्वनन्तगुणाः, सूक्ष्मसम्परायस्य जघन्यकाचारित्रपर्याया अनन्तगुणास्तस्यैव चोत्कर्षकाचारित्रपर्याया अनन्तगुणाः, यथाख्यात संयतस्याजघन्योत्कृष्टकाचारित्रपर्याया अनन्तगुणा इति ॥ योगद्वारमाह योगद्वारे - आग्रश्वत्वारस्संयता योगत्रयवन्तः । यथाख्यातस्तु 25 सयोगी अयोगी चेति ॥ योगद्वार इति । योगत्रयवन्त इति, मनोवाक्कायरूपयोगत्रयवन्तो न त्वयोगिन इत्यर्थः । सयोगीति, एकादशद्वादशत्रयोदश गुणस्थानान्तर्भावेण योगत्रयवानित्यर्थः । अयोगीति चतुर्दशगुणस्थानान्तर्भावेण योगत्रयाभाववानित्यर्थः ||
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy