________________
द्वाराणि ]
न्यायप्रकाशसमलङ्कृते विंशतिरसद्भावस्थापनया, तत्र यथाख्यातस्य प्रथममजघन्योत्कृष्टमेकं,, ततोऽधस्तनानि चत्वारि तस्मादसंख्येयगुणानि सूक्ष्मसम्परायस्य, ततोऽधस्तनानि चत्वारि विहायाष्टौ पराणि ततोऽसंख्येयगुणानि परिहारविशुद्धिकस्य, त्यक्तानि चत्वारि पूर्वोदितान्यष्टौ ततोऽधस्तनानि चत्वारि चेति षोडशपूर्वेभ्योऽसंख्यातगुणानि सामायिकछेदोपस्थापनीययोः, एतानि च द्वयोरपि तुल्यान्येवेति विज्ञेयम् ।।
सन्निकर्षद्वारमभिधत्ते -:
सन्निकर्षद्वारे-सामायिकसंयतस्य चारित्रपर्याया अनन्ताः। एवं यथाख्यातपर्यन्तानां सर्वेषां बोध्याः। सामायिकस्सामायिकान्तराद्धीनस्समानोऽधिकोऽपि स्यात् । हीनाधिकत्वे च षट्स्थानपतितत्वं स्यात् । एवं छेदोपस्थापनीयपरिहारविशुद्धिकापेक्षयाऽपीत्थमेव भाव्यम् । सूक्ष्म- 10 सम्परायिकयथाख्यातापेक्षया त्वनन्तगुणहीनचारित्रपर्यायवान् स्यात् ॥
सनिकर्षद्वार इति । चारित्रपर्याया इति, सर्वविरतिरूपपरिणामस्य चारित्रस्य पर्याया भेदास्ते च बुद्धिकृता विषयकृता वा बोध्याः । बोध्या इति, चारित्रपर्याया अनन्ता इत्यनुषज्यते । ननु सामायिकादीनां सर्वेषां चारित्रभेदस्यानन्तत्वाविशेषेण साम्यतापत्त्या स्वस्वसजातीयेभ्यस्स्वविजातीयेभ्यो वा हीनाधिकभावोऽस्ति नवेत्याशंकायामाह सामायिक इति । 15 सामायिकान्तरादिति, स्वसजातीयादित्यर्थः । हीन इति, विशुद्धसंयमस्थानसम्बन्धित्वेन विशुद्धतरपर्यायापेक्षयाऽविशुद्धसंयमस्थानसम्बन्धित्वेनाविशुद्धतराः पर्याया हीनाः, तद्योगासंयतोऽपि हीन इति भावः। समान इति, सदृशविशुद्धिकपर्याययोगात्समान इत्यर्थः । अधिकोऽपीति, विशुद्धतरपर्याययोगादधिक इत्यर्थः, षट्स्थानपतितत्वमिति । वस्तूनामनन्तासंख्यातसंख्यातभागः, संख्यातासंख्यातानन्तगुणैश्च वृद्धिर्वा हानि भवति, 20 सर्वविरतिविशुद्धिस्थानादीनां वस्तूनां वृद्धिा हानिर्वा विचिन्त्यमाना षट्स्थानगता प्राप्यते यथा अनन्तभागवृद्धिरसंख्यातभाग वृद्धिः, संख्यातभागवृद्धिः, संख्यातगुणवृद्धिः, असंख्यातगुणवृद्धिः, अनन्तगुणवृद्धिश्च, एवं हानावपीति । स्वविजातीयसंयतापेक्षयाप्येवमेव हीनाधिकत्वं स्यादित्याहैवमिति । इत्थमेवेति, हीनस्समानोऽधिकोऽपि स्यात् हीनाधिकत्वे च षट्स्थानपतितत्वं स्यादित्यर्थः । विजातीययत्संयतापेक्षया सामायिकस्य विशेषस्तमधिकृत्याह सूक्ष्मेति । अनन्तगुणेति तथाविधविशुद्धिविरहादिति भावः ॥
छेदोपस्थापनीय आद्यत्रयचारित्र्यपेक्षया सामायिकवत्स्यात् । अन्त्य