________________
तत्त्वन्यायविभाकरे
[ सप्तमकिरणे
विंशतियोजनान्यारुह्य नक्षत्रग्रहाणां विमानप्रस्तारः। एतद्विमानवर्तिनोऽपि चन्द्रादय उच्यन्ते। ते च द्विविधा मनुष्यक्षेत्रवर्त्तिनो मानुषोत्तरपर्वतात्परतो यावत्स्वयम्भूरमणसमुद्रं वर्त्तिनः चेति । तत्र प्रथमे मेरोः प्रादक्षिण्येन सर्वदा भ्रमणशीलाः, अपरे च सदावस्थानस्वभावाः, अत एव घण्टावत्स्वस्थानस्था एव तिष्ठन्ति । ज्योतिष्का इति, द्योतयन्ति जगत् प्रकाशयन्तीति 5 ज्योतींषि विमानानि, तेषां लोका ज्योतिष्काः, तेषु भवा अपि ज्योतिष्का इति भावः ।
अथ तृतीयदेवभेदान्व्यन्तरानाह पिशाचेति । देवत्वावान्तरतत्तन्नामकर्मोदयप्रयुक्ता एते देवभेदा व्यन्तराः, विविधमन्तरं शैलान्तरं कन्दरान्तरं वनान्तरं वाऽऽश्रयरूपं येषां तें ठयन्तराः, विमत अन्तरं विशेषो मनुष्येभ्यो येषां ते वा व्यन्तराः, 'मनुष्यानपि
चक्रवर्तिवासुदेवप्रभृतीन् मृत्यवदुपचरन्ति केचिद्व्यन्तरा इति मनुष्येभ्यो विगतान्तरा 10 इति विग्रहः । चतुर्थदेवभेदानाहासुरेति । कुमारशब्दोऽसुरादिभिः प्रत्येक योज्यः । एते
हि देवाः कान्तदर्शनास्सुकुमारा मृदुमधुरललितगतयश्शृङ्गाराभिजातरूपविक्रियाः कुमारवञ्चोद्धतरूपवेषभाषाऽऽभरणप्रहरणावरणपातयानवाहका उल्बणरागाः क्रीडनपराश्चेत्यतः कुमारा उच्यन्ते । भवनपत्य इति । भवनानां पतयस्तन्निवासित्वात्स्वामिनो भवनप
तयः । नागकुमाराद्यपेक्षया बाहुल्यतो भवननिवासित्वं द्रष्टव्यम् । प्रायो हि ते भवनेषु 1.5 कदाचिदावासेषु वसन्ति । असुरकुमारास्तु प्राचुर्येणावासेषु कदाचिद्भवनेषु । बहिर्वृत्ता
न्यन्तस्समचतुरस्राण्यधःकर्णिकासंस्थानानि भवनानि, कायमानस्थानीया महामण्डपा विचित्रमणिरत्नप्रभाभासितसकलदिक्चक्रा आवासा इति, विस्तरस्त्वन्यत्र निभालनीयः॥
अथ संयमद्वारमाचष्टे
संयमद्वारे-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्प20 रायाणां प्रत्येकं संयमस्थानान्यसंख्यातानि । यथाख्यातस्य त्वेकमेव संयमस्थानमिति ॥ .. .
. . - संयमद्वार इति । संयमश्चारित्रं तस्य स्थानानि विशुद्धिप्रकर्षाप्रकर्षकृतभेदाः, ते च प्रत्येकं सर्वाकाशप्रदेशाग्रगुणितसर्वाकाशप्रदेशपरिमाणाः पर्यवोपेता भवन्तीति, तेन चारित्र
द्वारादस्य नाभेदशङ्का कार्या, संयमस्थानस्यात्र विचार्यमाणत्वात् । असंख्यातानीति, सूक्ष्मसम्प25 रायस्य त्वान्तर्मोहूर्तिकान्यसंख्येयानि संयमस्थानानि क्षयोपशमवैचित्र्याद्भवन्ति, तदद्धाया
अन्तर्मुहूर्तमानत्वात् तत्र प्रतिसमयं संयमविशुद्धिविशेषस्य भावादिति विशेषो बोध्यः । एकमेव संयमस्थानमिति । एकस्मिन्नेव समये कषायाणामुपशमेन क्षयेण वा चरणशुद्धेर्निविशेषत्वादिति भावः । अत्र संयमस्थानस्याल्पबहुत्वचिन्तायां संयमस्थानानि सर्वाण्येक