________________
द्वाराणि]
न्यायप्रकाशसमलते माहेन्द्रवदारणाच्युताविति द्वादश देवलोकाः ॥ तत्र कीदृशानां देवानां निवास इत्यबाई-कस्पोपपनदेवानामिति । दीठयन्तीति देवाः, प्राग्भवोपात्तपुण्यप्राग्भारोपनतविशिष्टभोगसुखाः प्राणिविशेषाः, तत्र कल्पा इन्द्रादिदशतया कल्पनात् कल्पाः, कल्पाः आचाराः ते चानेन्द्रसौमानिकत्रायविंशदादिव्यवस्थारूपाः, तान् प्रतिपन्नाः कल्पोपपन्नाः, ते च ते देवाश्च कल्पोपपन्नदेवा वैमानिकविशेषास्तेषामेते लोका इत्यर्थः । तदुपरीति द्वादश- 5 देवलोकोपरीत्यर्थः, नव प्रैवेयका इति । लोकपुरुषस्य ग्रीवाप्रदेशे भवा प्रैवेयकास्ते नव यथागमं व्यवस्थितास्सुदर्शनादिशब्दवाच्या नवविधा इत्यर्थः । तदुपरीति अवेयकोपरीत्यर्थः । अभ्युदयविघ्नहेतूनां जयात्, कर्मणां विजितप्रायसयोपस्थितपरमकल्याणत्वाद्वा प्रतनुकर्मपटलावच्छिन्ना विजयवैजयन्तजयन्ताः, अभ्युदयविनहेतुभिर्न पराजिताः क्षुधादिभिर्वा न पराजिता अपराजिताः, सांसारिकसर्वकर्तव्यपरिसमात्याऽनन्त. 10 रजन्मनि सकलकर्मक्षयलक्षणमोक्षस्य भावित्वेन सिद्धप्रायास्सर्वार्थसिद्धा एतेषां विमानविशेषा अप्येतनामका एव । मूले तु विमानविशेषाणां नामान्यभिहितानि । अनुत्तरा इति, न विद्यन्ते उत्तराणि प्रधानानि विमानानि येभ्यस्तेऽनुत्तराः, देवलोका अपि अनुत्तरा उच्यन्त इति भावार्थः । विमानान्येतानि न परस्परमुपर्युपरि भवन्ति परन्तु मध्ये सर्वार्थसिद्धविमानं परितश्चत्वारीति । उभय इति प्रैवेयका अनुत्तराश्वेत्यर्थः । 15 कल्पातीतानामिति, इन्द्रादिदशतया कल्पनाविरहिणामित्यर्थः, तेषां सर्वेषामपि अहमिन्द्रत्वादिति भावः । तथा च षड्विंशतिर्वैमानिका विज्ञेयाः ॥
अथ ज्योतिष्कादिदेवभेदानाह
चन्द्रसूर्यग्रहनक्षत्रतारकाः पञ्च ज्योतिष्काः। पिशाचभूतयक्षराक्षसकिन्नरकिम्पुरुषमहोरगगन्धर्वा अष्टविधा व्यन्तराः । असुरनागसुपर्ण- 20 विद्युदमिद्वीपोदधिदिक्पवनस्तनितकुमारभेदेन दशविधा भवनपतयः ।
चन्द्रेति । नवत्यधिकसप्तशतयोजनानि भूभागादूर्ध्व तारकविमानप्रस्तारः । ततो दशयोजनानामुपरि सूर्यविमानप्रस्तारः । ततोऽशीतियोजनानामूलचन्द्रविमानप्रस्तारः । तदुपरि . १. ये इन्द्रतुल्यतया युतिवैभवादिभ्यश्चरन्ति ते सामानिकाः, ये तु मंत्रिकल्पाः परस्परेण साहाय्यकारिण उदात्ताचारास्संसारभीरवो गृहपतयस्त्रयस्त्रिंशत्परिमाणास्त्रायस्त्रिंशाः, कल्पयोर्दैवाः सम्यग्दृष्टयोऽपि मिथ्यादृष्टयोऽ. पि सम्यमिथ्यादृष्टयोऽपि, अनुत्तरोपपातिनस्तु सम्यग्दृष्टय एव, विमानाधिपतयस्तु सम्यग्दृष्टय एव, मुलमनोधिताहेतुतीर्थकृदाशातनापरिहारान्यथानुपपत्तेः । सामानिकदेवा न विमानाधिपतयः, देवीनामिव मूलविमानेकदेश एव तदुत्पत्तियोग्यं स्थानम् । जिनजन्मोत्सवादौ तेषां सिंहासनानां शक्रविमाने मण्डितत्वात् । शक्राप्रमहिषीसिंहासनमण्डनवदिति बोध्यम् ॥