________________
जघन्येन द्वे पल्योपमे, उत्कर्षेण तु त्रयस्त्रिंशत्सागरोपमाणीति । तद्विराधकथेवनपतीनामन्यतमेषु देवेपूत्पत्तिः, विराधितसंयमस्य भवनपत्यायुत्पादस्य शास्त्रानुमतत्वावित्याशयेनाह विराधकादिति । संयमाविराधकत्वे त्वाह परिहारविशुद्धिक इति, सष्टमन्यत् ।
संयमविराधकद्भवनपत्यन्यतमेषूत्पद्यते, देवलोके स्थितिरपि जघन्येन द्वे पस्योपमे, उत्क5 घेणाष्टादशसागरोपमाणीति । अनुत्तरविमान इति, अजघन्योत्कृष्टत इति भावः । अयमविराधनां प्रतीत्याहमिन्द्रतयोत्पद्यते, विराधनां प्रतीत्य तु यः कोऽपि भवनपतिः स्यादिति बोध्यम् । अनुत्तरविमान एवेति, अजघन्योत्कृष्टत इति भावः उभयोरपि संयतयोर्देवलोके स्थितिरजघन्योत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणीत्यपि बोध्यम् । यदा तु न देवगतो तदात्वाहायवेति ॥
के देवलोकाः के वा भवनपतय इति प्रसङ्गेनोदितायामाशंकायां अमे वक्ष्यमाणानपि संक्षेपतोऽत्र वक्ति
तत्र सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकमहाशुक्रसहस्त्राराऽऽनतप्राणताऽऽरणाऽच्युतभेदेन द्वादशविधा देवलोकाः कल्पोपपन्नदेवा
नाम् । तदुपरि सुदर्शनसुप्रतिबद्धमनोरमसर्वभद्रविशालसुमनससौमन15 सप्रीतिकरादित्यभेदेन नव ग्रैवेयकाः । तदुपरि विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धभेदेन पश्चानुतराः। उभये कल्पातीतानाम् ॥
तत्रेति । देवा हि सामान्येन विमानवासिज्योतिष्कव्यन्तरभवनपतिभेदेन चतुर्विधाः । विमानवासिनोऽपि कल्पोपपन्नाः कल्पातीताश्चेति द्विविधाः । एवंविधानां देवानां निवास
योग्यस्थानं देवलोक इत्याशयेन तत्स्थानान्याह-सौधर्मेत्यादिना । ज्योतिष्कोपरितनप्रस्ता20 रादसंख्येययोजनाध्वानमारुह्य मेरूपलक्षितदक्षिणभागार्धे प्राग्व्यवस्थितः प्राचीप्रतीच्यायत उदग्दक्षिणविस्तीर्णोऽर्धचन्द्राकृतिर्भास्वरः परिक्षेपत आयामविष्कम्भाभ्याञ्चासंख्येययोजनकोटीकोटयो लोकान्तविस्तारस्सर्वरत्नमयोऽशोकसप्तपर्णचम्पकचूतसौधर्मावतंसकोपशोभितशक्रावासस्सौधर्मः कल्पः । तस्योपरि चोदग्व्यवस्थित ईषदुपरितनकोट्या समुच्छ्रिततरो
मध्यव्यवस्थिताकस्फटिकरजतजातरूपेशानावतंसकविभूषित ऐशानकल्पः। सौधर्मस्योपरि 25 बहूनि योजनान्यतिक्रम्य सौधर्मकल्पवत्सनत्कुमारः। अस्योपरि माहेन्द्रः कल्प ऐशानकल्पवत् ।
सनत्कुमारमाहेन्द्रकल्पयोरुपरि बहूनि योजनान्यतीत्य मध्यवर्ती सकलनिशाकराकृतिब्रह्मकरूपः। एवमुपर्युपरि लान्तकमहाशुक्रसहस्रारास्त्रयः कल्पाः, तदुपरि बहूनि योजनान्यतिक्रम्य सौधर्मशानकल्पद्वयवदानतप्राणतनामानौ द्वौ कल्पो, तदुपरि समश्रेणिव्यवस्थितौ सनत्कुमार