________________
द्वाराणि.] न्यायप्रकाशसमलते
: १९१: परिहाणिः, सुषमायां गव्यूतद्वयं समुच्छ्रायः पल्योपमद्वयमायुः कल्पवृक्षादिश्च । सुषमदुष्षमायामेकगव्यूतसमुच्छ्राय एकपल्योपमायुः कल्पवृक्षादिः । दुष्षमसुषमायां पूर्वकोट्यायुः पंचशतधनुस्समुच्छ्रायः दुष्षमायां दुःषमदुष्षमायाश्चानियतं शरीरोच्छ्रायादिः, तथाप्येवं भण्यते दुष्षमायान्तु प्रारम्भे वर्षशतमायुः सप्तहस्तसमुच्छ्रायः, दुःषमदुष्षमायां पर्यन्ते तु हस्तप्रमाणं वपुः षोडशवर्षाणि परमायुर्निरवशेषौषधिपरिहाणिश्चेति बोध्यम् । उत्सर्पिण्यामपि त एव 5 भागास्तावन्मानास्तत्स्वरूपाः पूर्वोदितक्रमविपरीतक्रमा भवन्तीत्यभिप्रायत आहोत्सर्पिण्यामिति । एवञ्च विंशतिसूक्ष्माद्धासागरोपमकोटीकोटीप्रमाणद्वादशारकरूपमवसर्पिण्युत्सर्पिण्योः कालचक्रं पञ्चसु भरतेषु · पञ्चस्वैरवतेषु चानाद्यनन्तं परिवर्तते । कुरुषु तु सुषमसुषमातुल्यः कालः, हरिरम्यकेषु सुषमातुल्यः, हैमवतैरण्यवतेषु सुषमदुष्षमानिभः, षट्पञ्चाशदन्तरद्वीपसहितपश्चविदेहक्षेत्रेषु दुष्षमसुषमासदृश इति दिक् ॥
...
10 सम्प्रति गतिद्वारमाह
गतिद्वारे-सामायिकछेदोपस्थापनीयौ मृत्वा देवगतिं यायाताम् । तत्रापि वैमानिक एव । तत्रापि जघन्यतः प्रथमदेवलोकमुत्कृष्टतस्त्वनुत्तरविमानं यावत् । विराधकश्चेद्यः कोऽपि भवनपतिः स्यात् । परिहारविशुद्धिको वैमानिक एव स्यात् । तत्रापि जघन्यतस्सौधर्मकल्प उत्कृष्ट- 15 तस्सहस्रारकल्पे स्यात् । सूक्ष्मसम्परायोऽनुत्तरविमाने स्यात् । यथाख्यातसंयतो देवगतौ स्याचेत्तदाऽनुत्तरविमान एव स्यादथवा सिद्धिगति यायादिति ॥
गतिद्वार इति । तत्रापीति देवगतावपीत्यर्थः, वैमानिक एवेत्यत्रैवशब्देन भवनवासि वानमन्तरज्योतिष्केषत्पादो व्युदस्यते । तत्रापीति, वैमानिकेष्वपीत्यर्थः । प्रथमदेवलोक- 20 मिति सौधर्मदेवलोकमित्यर्थः । एतत्सर्व संयमाविराधनया बोध्यम् । देवलोके स्थितिस्तु
१. ननूच्चत्वं शरीरस्य स्वावगाढमूलक्षेत्रादुपरितननभःप्रदेशावगाहित्वं, तत्पर्यवा असंख्याता एवेति कथमनंतभागपरिहाणिः, एवमायुषः पर्यवा एकसमयोनादिरूपा असंख्याता एव, आयुःस्थितेरसंख्यातसमयात्मकत्वात्कथमनन्तरायुःपर्यवैर्हानिः, उच्यते, प्रथमारके प्रथमसमयोत्पन्नमुत्कृष्टं शरीरोच्चत्वं भवति, ततो द्वितीयादिसमयोपनानां यावतामेकनभःप्रतरावगाहिलक्षणपर्यवाणां हानिस्तावत्पुद्गलानन्तकं हीयमानं द्रष्टव्यमाधारहानावाधेयहानेरावश्यकत्वात् , तेनोच्चपर्यवाणामध्यनन्तत्वं सिद्धं, नभःप्रतरावगाहस्य पुद्गलोपचयसाध्यत्वात् , एवं प्रतिसमयं हीयमानस्थितिस्थानकारणीभूतान्यनन्तान्यायुःकर्मदलिकानि परिहीयन्ते, ततः कारणहानौ कार्यहानेरावश्यकत्वात्तानि च भवस्थितिकारणत्वांदायुःपर्यवा एव, अतस्तेऽनन्ता इति ॥