________________
तस्वन्याय विभाकर
[ ससमकिरणे का इमा उत्सर्पिण्यादय इत्यत्राह
रूपरसाद्युत्कर्षप्रयोजकः काल उत्सर्पिणी । रूपरसादिहानिप्रयोजकः कालोऽवसर्पिणी । तत्रावसर्पिण्यां सुषमसुषमासुषमासुषमदुष्षमा
दुष्षमसुषमादुष्षमादुष्षमदुष्षमारूपाषडरका भवन्ति । उत्सर्पिण्यां 5 व्युत्क्रमतष्षडरकास्त एव ॥
रूपेति । उत्सर्पति वर्धत अरकापेक्षया, उत्सर्पयति वा भावानित्युत्सर्पिणीति विप्रहः । रूपरसादीनामुत्कर्षः क्षेत्रे भवति स च कालहेतुकस्तस्माद्रूपरसाद्युत्कर्षप्रयोजकीभूतो यः कालस्सोत्सर्पिणीत्युच्यत इति भावः । आदिना जीवगतानामनुभवायुःप्रमाणशरीरा
दीनां ग्रहणम् । सूक्ष्माद्धासागरोपमाणां दशभिः कोटीकोटीभिर्निष्पन्नोऽयमुत्सर्पिणीकाल10 विशेषः । अवसर्पिणीस्वरूपमाह रूपरसेति । अवसर्पति हीयत अरकापेक्षया, अवसर्प
यति भावान रूपादीनित्यवसर्पिणीति विग्रहो लक्षणं स्पष्टम् । अयमपि कालविशेष उत्सर्पिणी परिमाण एष । यत्र तु भावा रूपादिस्वरूपा न हीयन्ते न वा वर्द्धन्ते तादृशः काल. विशेषो नोउत्सर्पिण्यवसर्पिणीत्युच्यते । मूले तु सुस्पष्टत्वान्न पृथग्लक्षिता । अथावस
र्पिणीं विभजते तत्रेति । सुषमसुषमाया अतिशोभनत्वेन तस्या एव प्रथमं निर्दिदिक्षया 15 क्रममुल्लंघ्यावसर्पिण्वेवादौ विभक्ता । सुषमसुषमेति । शोभनास्समा वर्षा यत्रेति सुषमा,
अत्यन्तस्रुषमत्वाद्वीप्सया सुषमसुषमेति । सर्वथा दुष्षमानुभावरहित एकान्तसुषमारूपो सागरोपमचतुष्कोटीकोटिरूपोऽयं कालः । सुषमेति । सागरोपमाणां कोटीकोटित्रयात्मिका सुषमसुषमापेक्षया हानिमती बोध्या । सुषमदुष्षमेति । दुष्टास्समा यत्र सा दुष्षमा, सुषमा
चासौ दुष्षमा चेति विग्रहः । सुषमानुभावबहुलाऽल्पदुष्षमानुभावा सागरोपमाणां कोटी20 कोटिद्वयप्रमाणाऽवसेया । दुष्षमसुषमेति, दुष्षमा चासौ सुषमा चेति कर्मधारयः, दुष्ष
मानुभावबहुलाऽल्पसुषमानुभावा द्विचत्वारिंशद्वर्षसहस्रन्यूनैकसागरोपमकोटीकोटिप्रमाणा भवति । दुष्षमेति । इयमेकविंशतिवर्षसहस्रमाना दुष्षमानुभावा । दुष्षमदुष्षमेति । अस्या अपि मानमेकविंशतिवर्षसहस्राणि, सर्वथा सुषमानुभावरहिताऽतिदुष्षमानुभावा चेति षड्भागा
अवसर्पिण्या द्रष्टव्याः। अत्र सुषमसुषमायां मनुष्याणां गव्यूतत्रितयं शरीरोच्छ्रायस्त्रीणि 25 च पल्योपमान्यायुः शुभपरिणामोऽपि कल्पवृक्षादिरनेकश्व, तत एषां परतो भागेष्वनन्तगुणा
१. अत्र कालस्वरूपतो नित्य इति न तस्य हानिरुपपद्यतेऽन्यथाऽहोरात्रं सर्वदा त्रिंशन्मुहर्तात्मकमेव न स्यात्, किन्तु अनन्तगुणपरिहाणिभिर्वर्णगन्धरसस्पर्शादिभिहीयमानोऽनन्तगुणवृद्धिभिस्तैर्वर्धमानः कालोहीयमानकालो वर्धमानकालश्चेत्युच्यत इति द्रव्यतो नित्यत्वं पर्यायतोऽनित्यत्वमित्याशयेन रूपरसाधुस्कत्यादि रूपेण लक्षणं प्रणीतमिति ॥