________________
द्वाराणि ]
न्यायप्रकाशसमलते तीर्थद्वारमाह
तीर्थद्वारे-तीर्थेऽप्यतीर्थेऽपि सामायिको भवेत् । अतीर्थे तु तीर्थकरः प्रत्येकबुद्धश्च स्यात् । छेदोपस्थापनीयपरिहारविशुद्धिको तीर्थ एव । सूक्ष्मसंपराययथाख्यातो सामायिक इवेति ॥
तीर्थद्वार इति । स्पष्टम् ॥ लिङ्गद्वारमाहलिङ्गद्वारे-सामायिकच्छेदोपस्थापनीय सूक्ष्मसंपराययथाख्याता द्रव्यतस्स्वलिङ्गे ऽन्यलिङ्गे गृहिलिङ्गेऽपि। भावतस्तु स्वलिङ्ग एव भवेयुः। परिहारविशुद्धिकस्तु द्रव्यतो भावतश्च स्वलिङ्ग एवेति ।
लिङ्गद्वार इति । लिङ्ग द्विधा, द्रव्यभावभेदात् , भावलिङ्ग ज्ञानादि, द्रव्यलिङ्गं तु द्विधा 10 स्वपरलिङ्गभेदात् , स्वलिङ्गं रजोहरणादिकं, परलिङ्गं द्विविधं कुतीर्थिकलिङ्गं गृहस्थलिङ्गवेति । स्पष्टमन्यत् ॥ .. शरीरद्वारमाह
शरीरद्वारे सामायिकच्छेदोपस्थापनीययोरौदारिकतैजसकार्मणानि, औदारिकतैजसकार्मणवैक्रियाणि, औदारिकवैक्रियाऽऽहारकतैजसकार्म- 15 णानि वा शरीराणि भवन्ति । शेषाणान्त्वौदारिकतैजसकार्मणामीति ॥ - शरीरद्वार इति । कार्मणवैक्रियाणीति । पूर्वापेक्षयाऽत्र वैक्रियस्यैवाधिक्यप्रदर्शनाय क्रमोल्लंघनम् । शेषाणामिति, परिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातानामित्यर्थः । त्रीण्येव शरीराणि भवन्तीति भावः॥ क्षेत्रद्वारमाह
20 क्षेत्रद्वारे-जन्मसद्भावावाश्रित्य सामायिकच्छेदोपस्थापनीयसूक्ष्मसम्पराययथाख्याताः कर्मभूम्यां संहरणापेक्षया त्वकर्मभूमौ भवेयुः । परिहारविशुद्धिकस्तु कर्मभूमावेव भवेत् । नास्य संहरणं भवेदिति ॥
... १. नियमेनोभयत्र वर्त्तते, एकेनापि विना विवक्षितकल्पो चितसामाचार्ययोगादिति भावः ॥
.