________________
: १८८ : तत्त्वन्यायधिभाकरे
[ सप्तमकिरणे विराधनाद्वारमित्यप्युच्यते । मूलोत्तरगुणप्रतिसेवकाविति । इमौ प्रतिसेवकावप्रतिसेवको च, यदि प्रतिसेवको तदा मूलगुणानां प्राणातिपातविरमणादीनामनाश्रवाणामन्यतमं प्रतिसेवेताम् । संज्वलनकषायोदयात्संयमप्रतिकूलार्थस्य कस्यचित्सेवना प्रतिसेवना। तथोत्तर.
गुणानां दशविधप्रत्याख्यानानामन्यतमं प्रतिसेवेतामिति भावः । उपलक्षणश्चैतत् तेन पिण्ड5 विशुद्धयादीनां विराधकत्वमपि सम्भाव्यते ॥
ज्ञानद्वारमाचष्टे
ज्ञानद्वारे-सामायिकादिचतुर्णा द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्ति । यथाख्यातस्यैकादशद्वादशगुणस्थानयोश्चत्वारि ज्ञानानि, ऊर्ध्वगुणस्थानयोः केवलज्ञानं भवतीति ॥ 10 ज्ञानद्वार इति । द्वे वेति । आभिनिबोधिकज्ञानश्रुतज्ञाने इत्यर्थः । त्रीणि वेति । आभि. निबोधिकश्रुतावधिज्ञानानि, आभिनिबोधिकश्रुतमनःपर्यवज्ञानानि वेत्यर्थः । चत्वारि वेति, आमिनिबोधिकश्रुतावधिमनःपर्यवज्ञानानीत्यर्थः । चत्वारि ज्ञानानीत्युत्कर्षेणेति शेषः, तथा च छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्तीति
भावः । ऊर्ध्वगुणस्थानयोरिति, सयोग्ययोगिगुणस्थानयोरित्यर्थः॥ 15 अथ ज्ञानप्रसङ्गेन मध्य एव ज्ञानविशेषभूतस्य श्रुतस्य प्रकारं विभावयति
श्रुतद्वारे-सामायिकच्छेदोपस्थापनीययोजघन्यतोऽष्टौ प्रवचनमातर उत्कर्षतस्तु यावचतुर्दशपूर्व श्रुतम् । परिहारविशुद्धस्य जघन्यतो नवमपूर्वस्याचारवस्तु । उत्कृष्टतस्त्वपूर्णदशपूर्व यावत् । सूक्ष्मसम्परायिकस्य तु
सामायिकस्येव । यथाख्यातस्य निर्ग्रन्थस्य सामायिकस्येव । स्नातकस्य 20 श्रुतं नास्तीति ॥
.. श्रुतद्वार इति । तथा च ज्ञानद्वार एव श्रुतद्वारस्यान्तर्गततया नाधिकद्वारशङ्का कार्यो । आचारवस्त्विति । नवमस्य पूर्वस्य तृतीयाऽऽचारवस्तुनामाधिकारविशेष इति भावः । अपूर्णदशपूर्वमिति । देशोनदशपूर्वमित्यर्थः । सामायिकस्येवेति । जघन्यतोऽष्टौ प्रवचनमातर उत्कृष्टतस्तु यावञ्चतुर्दशपूर्वमित्यर्थः, श्रुतं नास्तीति, केवलज्ञानित्वादिति भावः ।।
१. परिहारविशुद्धिकोऽपूर्वमागमं नाधीते, यतस्तत्कल्पमधिकृत्य प्रगृहीतोचितयोगाऽऽराधनात एव कृत-.. कृत्यतां भजते, पूर्वाधीतन्तु विस्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनास्सम्यक् प्रायोऽनुस्मरतीति ॥ . .